________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
तेरेतैर्दृष्टान्तरयं नामधारकोजातिमात्रसद्भावेऽपि ब्राह्मणाभास: न तु मुख्यः । पङ्कजशब्दस्य च यद्यपि जातिः प्रवृत्तिनिमित्तं, तथाप्यवयवार्थस्तस्मिन्निमित्तेऽन्तर्भवत्येव । ततोयोगरूढः(२) इति व्यवहियते । एवं ब्राह्मणशब्दस्यापि योगरूढत्वात् जातिसद्भावेऽपि योगहीनत्वादाभामत्वं द्रष्टव्यम् ।
ननु मुख्यसम्भवे सत्यमुख्यं न ग्राह्यं, तदसम्भवे त्वमुख्यमपि ग्राह्यम्,-दति लोकवेदस्थितिः। तथा चाध्ययनादिसम्पन्नमुख्यब्राह्मणानामसम्भवे सति ब्राह्मणभामानामपि क्वचित् परिषत्वं स्थादित्याशयाह,यथा घण्डोऽफलः स्त्रीषु यथा गौदूषराऽफला । यथा चाज्ञेऽफलं दानं तथा विनोऽनुचोऽफलः ॥१८॥
अमुख्यमपि यत्र कार्यक्षम भवति, तत्र मुख्यासम्भवे तदु
(१) प्रतिनिमित्ते इत्यर्थः । (२) यत्र योगार्थरूक्ष्यर्थयोः परस्परमन्वयबोधः स योगरूः। यथा
पवाजादिशब्दः । अत्र हि पवशब्द-जनधातु-डप्रत्ययानामवयवानां 'शक्तिभिः पड्वजनिकर्ताऽर्थालभ्यते। सरव योगार्थः । पञ्चजशब्दम्य समुदायशक्त्या च पद्मत्यजातिविशियोऽर्थी लभ्यते । सरव रूघ्यर्थः । तयोः परस्परमन्वयः । तथाच पवाजनिकभिन्नं पद्ममिति पङ्कजपदस्यान्वयबोधः । तथा च सति, न पङ्कजनिकर्तरूपमवयवार्थमादाय कुमुदादी, नापि पनत्वविशियरूपसमुदायार्थमादाय स्थलपङ्कजादौ पानशब्दस्य प्रयोगः, किन्तु जलपङ्कजएव ।
22
For Private And Personal Use Only