________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
स्तस्मिन् मा भूत्, जातिस्तु विद्यते, विशिष्ठमातापिटजन्यत्वं ब्राह्मणत्वजातिः, तथा च ब्राह्मणशब्दस्य तस्मिन् यौगिकत्वाभावेऽपि रूढ़ि(१) सद्भावाद्विषमौ दृष्टान्तावित्याशङ्याह,ग्रामस्थानं यथा शून्यं यथा कूपस्तु निर्जलः । यथा हुतमनमौ च अमन्त्रो ब्राह्मणस्तथा ॥ १७ ॥ ___ ग्रामशब्दोहि जननिवासस्थाने भूभागविशेषे मुख्यया वृत्त्या वर्त्तते, कूपशब्दश्च जलाधारे खाते। होमशब्दश्च शास्त्रसंस्कृतवहौ हविःप्रक्षेपमाह(२)। तत्र, जनविशिष्टस्थानं मुख्यो ग्रामः । जनशून्यग्रामस्तु* यामाभासः। कूपहोमयोरप्याभामत्वमेवं योजनौयम् ।
* जनशून्य स्थानं तु,-इति मु० ।
(१) योगोऽवयवशक्तिलभ्योऽर्थः । रूढ़िः समुदायशक्तिलभ्योऽर्थः । योगा
थप्रतिपादकोयोगिकः, रूख्यर्थप्रतिपादकोरू, इत्युच्यते । पाचकादि
शब्दोयौगिकः, रक्षादिशब्दोरूः । (२) अत्र मीमांसासूत्रम् (० अ० २ पा० २८ सू०) । “तदुक्त श्रवणात्
जुहोतिरामेचनाधिकः स्यात्" इति । “तदुक्त यनयुक्तोऽर्थे यासेचनाधिके। तस्मात् यनतिरेवासे चनाधिको जुहोतिः" इति भाष्यम् । यजतिश्च, “यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् (मी० १ १०२ पा० २७ सू०)-इत्युक्तलक्षणः । पासेचनच विशिष्टदेशप्रक्षेपः । विशिष्टश्च देशः संस्कृतोऽमिरेवौत्सर्गिकः । "यज्जुहोति तदाहवनौये"-इति श्रुतेः। “पदे जुहोति, वर्मनि जुहोति"-इत्यादि विशेषशास्त्रात् क्वचित् पदवादिलक्षणोऽपि । पत्र चौत्सर्गिक नियममनुसृत्य शास्त्रसंस्कृतवौ”-इत्युक्तमिति ध्येयम् ।
For Private And Personal Use Only