________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
एषां लाघवकार्येषु मध्यमेषु तु मध्यमाः ॥
महापातकचिन्तासु शतशोभूयएवच” इति । वृहस्पतिरपि,
"लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा ।
यत्रीपविष्टाः विप्राः स्युः मा यज्ञसभी सभा” - इति ॥ नामधारकविप्राण परिषत्त्वं नास्तीति यत् पूर्वमुदाहतं, तदेव दृष्टान्तेन दृढीकर्नु सिंहावलोकनन्यायेन पुनः परामशति,अत जन्तु ये विप्राः केवलं नामधारकाः। परिषत्त्वं न तेष्वस्ति सहसगुणितेष्वपि ॥१५॥
अत जई वर्णितेषु परिषत्यक्षेषु अवगम्यमानेभ्यो। गुणवद्ध्योब्राहाणेभ्य ऊर्छ, तयतिरिका गुणरहिता इति यावत् । ___ गुणरहितेषु बाहाणेषु ब्राह्मणति नाममात्र केवलं वर्त्तते, न तु ब्राह्मणशब्दप्रवृत्तिनिमित्तं मुख्योऽर्थाऽस्तीत्येवमर्थं दृष्टान्ताभ्यां विशदयति,यथा काष्ठमयोहस्तौ यथा चर्ममयोमगः। ब्राह्मणल्वनधीयानस्वयस्ते नामधारकाः॥१६॥ इति॥
हस्तित्वं मुगलं जातियं तत्तच्छन्दप्रवृत्तिनिमित्तं, न चैतत्काष्ठमयचर्ममययोर्विद्यते, तथापि हस्तिमृगनामसादृश्यमानेण प्रयुज्यते । तहदेदाध्ययनहौने ब्राह्मणशब्दप्रयोगः । ननु ब्राह्मणशब्दस्यावयवार्थ* इत्यमेव पाठः सर्वत्र । मम तु एवं'--इति पाठः प्रविभाति । + उपन्यस्यमानेभ्यो, इति मु ।
For Private And Personal Use Only