________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
परापारमाधवः।
वेदोक्तानि व्रतानि वेदव्रतानि, तत्तद्वतसहितेषु वेदेषु समाप्तेषु यथाविधि साताः । "शिरोव्रतेन स्नातानाम्"-दूति वा पाठः । आथर्वणिकानां वेदव्रतेषु मुख्यं व्रतं शिरोवतम्। तथाचाथाणिकाश्रामनन्ति,
"क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः खयं जुहन्त एकचर्षि श्रयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत
शिरोवतं विधिवद् यैस्तु चौर्णम्” इति ॥ तस्मिन् शिरोनते सत्यनन्तरमध्ययनं परिसमाप्य यथाविधिस्वाताः। तेषामेतेषां यथोकसर्वगुणसम्पन्नानां मथे यः कोऽयेकः परिषद्भवेत् । अत्र साग्निकानामनगिकानां द्वौ धौ पक्षौ, अध्यात्मविदेकः पक्षः,- इति पञ्च पक्षा मया प्रोक्ताः, तेशं सर्वेषामसम्भवे केचन विद्यमानाः श्रेष्ठास्वयः। ते च यद्यायुधजीवनाधधर्मवृत्तिमनुपजौव्य यथासम्भववृत्तिमात्रेण परितुष्टास्तेषामपि परिषत्त्वमविरुद्धम् । अङ्गिरमाऽपि परिषदिकल्पा दर्भिताः,
"चत्वारोवा चयोवाऽपि वेदवन्तोऽग्रिहोत्रिणः । ये सम्यनियता विप्राः कार्याकार्यविनिश्चिताः ॥ प्रायश्चित्तप्रणेतारः सप्त तेऽपि प्रकीर्तिताः । एकविंशतिभिश्चान्यैः परिषत्त्वं समागतैः ॥ मावित्रीमात्रसारैसु चौर्णवेदवतैर्द्विजैः । यतीनामात्मविद्यानां यायिनामात्मयाजिनाम् ॥ मिरोवतैश्च खातानामेकोऽपि परिषद्भवेत् ।
For Private And Personal Use Only