________________
Shri Mahavir Jain Aradhana Kendra
[1]
www. kobatirth.org
प्रायश्चित्तकाखम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१८५
तत् कर्त्तरि यत्पापं नाशयेदिदुषां सभा । तेषां नेत्राग्निदग्धं सत् पापं तस्य तु धीमतः ॥ नत्र्यते नात्र सन्देहः सूर्य्यदृष्टं हिमं यथा" - इति । अथ मुख्यानुकल्पभेदेन परिषद्भेदानाह, - चत्वारो वा चयोवाऽपि वेदवन्तोऽग्निहाचिणः । ब्राह्मणानां समर्थाये परिषत् साऽभिधीयते ॥ ११ ॥ अनाहिताप्रयेा ये च वेदवेदाङ्गपारगाः । पञ्च चयेो वा धर्मज्ञाः परिषत् सा प्रकीर्त्तिता ॥ १२ ॥ मुनीनामात्मविद्यानां द्विजानां यज्ञयाजिनाम् । वेदवतेषु खातानामेकेोऽपि परिषद्भवेत् ॥ १३ ॥ पश्च पूर्व्वं मया प्रोक्तास्तेषाच्चासम्भवे चयः । स्वतपरितुष्टाये परिषत्सा प्रकीर्त्तिता ॥ १४ ॥
For Private And Personal Use Only
ग्राममध्ये विद्यमानानां वेदविद्यादिगुणयुक्तानां ब्राह्मणानां मध्ये येऽत्यन्तं समर्थास्ते चत्तारो मुख्या परिषत् । तदसम्भवे जयोवा परिषत्त्वेन ग्राह्याः । एतत् पचदयमाहिताग्निष्वभिहितम् । तदसम्भवे अनाहिताग्नयः । तचापि पञ्चेति मुख्यः कल्पः । चयत्यनुकम्पः । तत्रापि पचदयस्यासम्भवे सत्येकएव परिषद्भवेत् । तमेकं विशिष्टं * मुनीनामित्याद्युक्रम्। श्रात्मनि ब्रह्मणि विद्याऽनुभवो येषान्ते श्रात्मविद्याः । तथाविधाः कृतकृत्याः सन्तोऽपि लोकाग्रहाय यज्ञैरिष्टवन्तोयज्ञयाजिनः । वेदानाम्टगादीनाञ्चतुर्णमध्ययनायानुष्ठितानि तप्तइत्यमेव पाठः सर्व्व । मम तु, “तमेकं विशिंगता " इति पाठः प्रविभावि ।
**