________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
पराशरमाधवः।
[
प।
"ऋषिवनोगतान् धर्मान् गायन्तो वेदवित्तमाः” इति । অশ্বিবি,
“वचः पूर्वमुदाहायं यथोकं धर्मवकृभिः । पश्चात्कार्यानुसारेण शक्त्या कुर्युरनुग्रहम् ॥ न हि तेषामतिक्रम्य वचनानि महात्मनाम् । प्रज्ञानरपि* विवद्भिः शक्यमन्यत् प्रभाषितम्" इति । धर्मशास्त्रपरिज्ञानस्य न्यायनिर्णयकौशलस्य च सद्भावेऽप्यनवधानादिचित्तदोषशकाव्यदासाय स्वममानैस्विचतुरैः सह संवादोऽपेक्षितइत्यभिप्रेत्याह,चत्वारो वा चयो वाऽपि यं ब्रूयुर्वेदपारगाः। स धर्म इति विज्ञेयो नेतरैस्तु सहस्रशः ॥७॥ इति ॥
बहनामन्योन्यसंवादेन योनिश्चितः, सएव धर्म इति विज्ञेयः, इतरैरन्योन्यसंवादमनाट्रियमाणैः सहस्रसङ्ख्याकवचनपाठपुरःसरमभिहितोऽपि विसंवादशङ्काया अनिराकृतत्वान्नासौ धर्मत्वेन खौकार्य: ।
सत्यपि त्रिचतुराणां परस्परमंबादे विप्रकीर्णब्वनेकेषु धर्मशास्त्रेषु क्वापि कस्यचिद्विशेषस्य सम्भवात् प्रायश्चित्तनिर्देशबेलायां पुनः शास्त्राणि पालोयैव निदेष्टव्यमित्याह,प्रमाणमार्ग मार्गन्तोये धर्म प्रवदन्ति वै। तेषामुद्दिजते पापं सद्भतगुणवादिनाम् ॥८॥ इति ॥
* प्रज्ञानेनैव,-इति मु.।
For Private And Personal Use Only