________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[स्थ
.।
मृदुरार्जवसम्पन्नः शुद्धिं याचेत मानवः । सचेलं वाग्यतः स्यात्वा लिनवासाः समाहितः ॥ क्षत्रियो वाऽथ वैश्यो वा ततः पर्षदमानजेत् । उपस्थाय ततः भौघमार्त्तिमान् धरणौं ब्रजेत् ॥ गाचेच शिरमा चैव न च किश्चिदुदाहरेत्” इति । यथोक्तविशेषणरहितानां परिषत्वं निषेद्धं तेषां स्वरूपमाह,साविल्याश्चापि गायत्याः सन्थ्योपात्यमिकार्ययोः। अज्ञानात् कृषिकत्तारो ब्राह्मणा नामधारकाः ॥३॥ तत्सवितुर्वरेण्यमिति मविप्रतिपादकत्वात् सावित्री, णिकारयकारयोविश्लेषेण चतुर्विंशत्यचरवागायत्रौ। “चत विंशत्यचरा गायत्री"-इति श्रुतेः(१)। सावियादौनामज्ञानात्र मुख्या ब्राह्मणाः । ब्रह्म वेदः, तमधीत्यार्थ चावगत्य येऽनुतिष्ठन्ति, मुख्यास्ते ब्राह्मणाः । तदाहाङ्गिराः,
* पविषदं ब्रजेत्, इति मु. ।
(९) पत्रेदमवधेयम् । “गायथा वसवः (श्य. १सू.)" इति पिङ्गलसूत्रे
गायन्याः पाद अचाक्षराणि भवन्तीत्युक्तम् । “इयादिपूरणः (३ वा. २सू०)" इति तत्सूत्रेण, यत्र गायन्यादौ छन्दसि पादस्थाक्षरसंख्या न पूर्यते, तत्र इयादिभिः सा पूरयितथा, इत्युक्तम् । एवञ्च प्रकृते, 'तत्सवितुर्वरेण्यं'-इति पादस्य सप्ताक्षरत्वात् शिकार-यका. रयोविश्लेषं कृत्वा इयेन पादाक्षरसंख्या पुरयितया भवति । तथा च सति, तत्सवितुर्वरेणियमित्याक्षराणि सम्पद्यन्ते ।
For Private And Personal Use Only