________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाथवः ।
अतः शतप्रायश्चित्ता महापातकिनः शुद्धा अपि परलोके, शिष्टैरिह वहिः कार्याः । ननूपपातकिमाभपि कृतप्रायश्चित्तानां वहिष्कारएवोचितः । तथा वैयासिकं न्यायसूत्रम्। “वहिस्खभयथापि स्मृतेराचाराच" (वे० ३१० ४ पा० ४ ३ सू०)- इति । अस्थायमर्थः । यद्युपपातकं यदि वा महापातकं, उभयथाऽपि कृतप्रायश्चित्ताः शिष्टैर्ध्वहिः कार्याः । “प्रायश्चित्तं न पश्यामि(१)"रति निन्दामतेः। शिष्टाचाराच्चेति । मैवम् । अयं हि वहिष्कारअर्द्धरेतीविषयः, न तु ग्रहस्थविषयः। उर्द्धरेतोविचाराणामेव तत्र प्रस्तुतत्वात् । इदश्च कौशिकेन स्पष्टीकृतम्,
"नैष्ठिकानां वनस्थानां यतीनां चावकौर्णिनाम् ।
श्रद्धानामपि लोकेऽस्मिन् प्रत्यापत्तिर्न विद्यते”–दति ॥ तदेवमैहिकव्यवहाराय परलोकाय वा कामकृतानां महापानकानामुपपातकानां चास्त्येव प्रायश्चित्तमिति सिद्धम् ।
प्रायश्चित्तं कथं भवेदिति मेतिकर्त्तव्यताकस्य प्रायश्चित्तस्य पृष्टत्वात् परिषदुपसत्तिरूपामाद्यामितिकर्त्तव्यतामाह,वेदवेदाङ्गविदुषां धर्मशास्त्र विजानताम् । स्वकर्मा रतविप्राणां स्वकं पापं निवेदयेत् ॥२॥ इति।
* एवोदितः, इति । । खधर्म,-इति मु. । एवं परत्र ।
(१) थारूको नैछिक धर्म यरत प्रध्यवते पुनः। प्रायश्चित्तं न पश्यामि
येन अध्येत् स बारमहा"-इति समुदायः ।
For Private And Personal Use Only