________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
८० ॥]
प्रायवित्तकाण्डम् |
तो द्विगुणप्रायश्चित्तेनेह लोके व्यवहारः सिद्ध्यति । यस्तु व्यवहारमनपेक्ष्य परलोक निर्वाहमेव केवलमपेक्षते, तस्य बुद्धिपूर्व्वकेषु महापातकेषु मरणान्तिकमेव प्रायश्चित्तम् । तत्र शातातपः । " अकामावाप्तौ प्रायश्चित्तं, कामकारकृते त्वात्मानमवसादयेत्”– इति । स्मृत्यन्तरेऽपि -
“यः कामतो महापापं नरः कुर्य्यात् कथञ्चन । न तस्य निष्कृतिर्दृष्टा भृम्वनिपतनादृते” - इति ॥ मनुरपि,
Acharya Shri Kailassagarsuri Gyanmandir
“प्रास्येदात्मानमग्नौ वा सुसमिद्धे त्ववाक्शिराः ।
लक्ष्यं शस्त्रम्टतां वा स्याद्विदुषामिच्छयाऽऽत्मनः " - इति ॥ तस्मात् कामकारिणो मरणेन नरकपातनिवृत्तिः, व्रतचर्य्यया तु व्यवहारसिद्धिरिति निर्णयः ।
૫૫
अपरे पुनरेवमा: । यदुकं मरणान्तिकप्रायश्चित्तेन नरकनिवृत्तिरिति, तत्तथैव युक्रम्। यदुक्तं, व्रतचर्य्यया व्यवहारसिद्धिरेव न तु नरकनिवृत्तिरिति, तद्विपर्य्येति । चीर्णव्रतस्य नरकस्तावन्निवर्त्तते, इह लोके तु तस्य न शिष्टैः सह व्यवहारोऽस्ति । एतच्च, अव्यवहार्य्य:, - इति याज्ञवल्क्यवचने पद ञ्छित्वा योजनीयम् । कामतश्चेत् पापं कृतं म पापी कृतप्रायश्चित्तोऽप्यव्यवहार्य्य दह लोके जायते । तच्चाव्यवहार्यत्वं वचनबलादवगन्तव्यं वचनञ्च
,
मानवमेतत्,
"बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तंश्च स्त्रौहन्तुंच न वसेत्" - दूति ॥
For Private And Personal Use Only