________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[४व।
विशेषणम्। तस्मात् नैमित्तिकं प्रायश्चित्तम्। तथा र वृहस्पतिः प्रायश्चित्तप्रकरणस्योपक्रमोपसंहारयोः नैमित्तिकत्वं दर्शयति,
"नैमित्तिकं धर्मजातं गदतोमे निवोधत । विहितस्थाननुष्ठानात् निन्दितस्य* निषेवनात् ॥ प्रायश्चित्तं यत् क्रियते तत् नैमित्तिकमुच्यते”इत्युपक्रमः,
"नैमित्तिकं समाख्यातं प्रायश्चित्तं समासतः"इत्युपसंहारश्च। तच्च निमित्तं दुरितापूर्व, तदुत्पत्तिकारणं याज्ञवल्क्येन दर्शितम्,
“विहितस्थाननुष्ठानानिन्दितस्य च सेवनात् ।
अनिग्रहाचेन्द्रियाणां नरः पतनम्मृच्छति”-इति । मनुनाऽपि,
"अकुर्खन् विहितं कर्म निन्दितञ्च समाचरन् ।
प्रसजश्चेन्द्रियार्थेषु प्रायश्चित्तौयते नरः” इति । ननु, निन्दितसेवनाद्भावरूपादुरितोत्पत्तावपि विहिताकरणदभावात् कथं दुरितोत्पत्तिः, न ह्यभावाभावउत्पद्यमानः क्वचिदृष्टः(१) । अत्र केचिदाहः। सन्ध्यावन्दनादिविहिताननुष्ठान
* प्रतिषिद्ध,-इति स० शा० सो पुस्तकेषु पाटः ।
(१) “कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेत"---
इति श्रुत्या ( छा० उ० ६ प्र. ) अभावाद्भावोत्पत्तिनिराकृता,इत्यपि स्मर्त्तव्यम् ।
For Private And Personal Use Only