________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४० 1]
प्रायवित्तकाण्डम् |
मग्निहेोचाद्यनधिकाररूपाशुचित्वद्योतकम् । श्रयमेवार्थ:, 'अकुर्व्वन् प्रत्यवैति' - इत्यनेनाभिधीयते । न त्वनुष्ठानाभावाद्भावरूपस्य दुरितस्योत्पत्तिरभिधीयते । स चानधिकारः प्रायश्चित्तेन निवर्त्तनीयः, - इति । अपरे पुनराहुः । 'अकुर्व्वन्' - इति लक्षणार्थे शतप्रत्ययः । यदेतद्विहिताकरणं तदेतत् प्राग्भवौयनिषिद्धाचरणजन्यदुरितापूर्व्वमद्भावस्य लिङ्गं (९), तदेव दुरितं प्रायश्चित्तेन निवर्त्तते इति । श्रन्ये त्वेवं समादधते । श्रभावाद्भावोनोत्पद्यते इति नाथमेकान्तः, तार्किक प्रागभावस्य कारणत्वात् । मीमांसकमते, भाट्टैस्तावदभावाद्भावोत्पत्तिरभ्युपगता, योग्यानुपलब्धिलक्षणदभावात् प्रमाशाइटाद्यभावविषयप्रमितेर्भावरूपायाजननात् । प्राभाकरैश्वाभाव
"
Acharya Shri Kailassagarsuri Gyanmandir
एव नाभ्युपगम्यते,
“भावान्तरमभावेोहि कयाचित्तु व्यपेक्षया - इत्युदौरणात् । तथा च सति विहिताकरणमपि भावान्तरमेवेति वा तस्मात् प्रत्यवाय उत्पद्यतां का तव हानि: । अथोच्येत, प्रत्यवायोनाम दुरितापूर्व्वं तच्च कृतिसाध्यत्वे मति कृत्युद्देश्यं, तथा च विहिताकरणस्य कृतिरूपत्वाभावादपूर्व्वजनकत्वं नास्तीति । नायं दोषः । तस्य लक्षणस्य विहितप्रतिषिद्धकर्मजन्यापूर्व्वविषयत्वेन सङ्को
2
1
(१) तथाच "लक्षण हेत्वोः क्रियायाः " - इति व्याकरणस्मृत्या लक्षणार्थे - ऽपि शतुरनुशासनादच शतुर्लक्षणार्थत्वमेव न हेत्वर्थत्वमिति भावः । यत्रैतदुक्तम् । “नित्यानामक्रिया यस्मालक्षयत्यतिसत्वरा । प्रत्यवायक्रियां तस्मालक्षणार्थे शता भवेत्”, इति ।
For Private And Personal Use Only