________________
Shri Mahavir Jain Aradhana Kendra
० ।]
www. kobatirth.org
प्रायवित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
विद्यमानाऽप्युपहतिर्यच न दृष्टा, तत्र तदर्शनात् पूर्वं शुद्धमेव
तदस्तु । तदाच सएव,
" त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । श्रदृष्टमद्भिर्निर्णितं यच्च वाचा प्रशस्यते” – इति ॥ याज्ञवल्क्योऽपि -
"वाक्शस्तमम्बुनिर्णिक्रमदृष्टञ्च सदा शुचि” |
येयं पूर्वोका द्धिः, सा सर्वाऽप्यनापद्विषयेत्यभिप्रेत्याह
"
१४८
देशभङ्गे प्रवासे वा व्याधिषु व्यसनेष्वपि । रश्चेदेव स्वदेहादि* पश्चाद्धर्मं समाचरेत् ॥ ३६ ॥
* स्वदेहामि, — इति मु० । एवं परत्र |
देशभङ्गः परसैन्यापादितः । प्रवासस्तीर्थयात्रादौ परगृहाद्यवस्थानम् । व्याधयो ज्वरादयः । व्यसनानि स्वामिकोपादिजनितानि(९) । एतेषु प्राप्तेषु श्रद्धाजाद्येन शुद्धाशुद्धी न विचारयितव्ये, किं तर्हि शुचिभिराचिभिर्वा द्रव्यैरात्मपुत्रकलत्रादीनां यथा रक्षा भवति तथा कृत्वा शान्तायामापदि पखाद्द्रव्यशुद्ध्यादिरूपं शास्त्रोकं धर्ममाचरेत् । रचेदेव स्वदेहादीत्यमुमर्थं प्रपञ्चयति,
For Private And Personal Use Only
(१) तथाच व्यसनपरेमात्र खामिकोपादिजनिता विपदुष्यते । स्वामिकार्य्यजमितानि - इति पाठे खामिकार्व्यजनिता विपदेवार्थः ।