________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[७५०।
येन केन च धर्मेण मृदुना दारुणेन च। उदरेदीनमात्मानं समर्थोधर्ममाचरेत् ॥ ३७॥
शुद्धद्रव्यादिसम्पादितो धर्मो मृदुः, तविपरीतो धर्मो दारुण:, स्तन्यपानमांसभक्षणादि। तयोर्मध्ये येन केनापि व्याध्यादिभिर्दीनमात्मानमापः उद्धृत्य समर्याव्याध्यादिरहितो यथाशास्त्र धर्ममाचरेत् । ___ तत्राचरणीयो धर्माद्विविधः। श्राचारकाण्डोक्रविहितानुष्ठानप्रतिषिद्धवर्जनरूपएकः । प्रायश्चित्तकाण्डोक्रविधिनिषेधातिक्रमममाधानरूपोऽपरः। तदुभयं विवियोभयत्रापि शान्तापदेवाधिकारीत्याह
आपत्काले तु निस्तीर्णे शौचाचारन्तु चिन्तयेत् । शुद्धि समुहरेत् पश्चात् स्वस्थो धर्म समाचरेत् ॥३८॥
शौचाचारमित्यनेन प्रथमकाण्डोको धर्मः परामृष्टः। शुद्धिमित्यनेन प्रायश्चित्तकाण्डोको धर्मो निर्दिष्टः । शुद्धो यथा भवति, तथा पापात् समुद्धरेदित्यर्थः । स्वस्थ इत्युपसंहारः। उक्त विविधमपि धम्मं स्वस्थएव समाचरेत्, न त्वापन्नः । एतदभिप्रेत्य याज्ञल्क्य
"क्षात्रेण कर्मण जौवेदिशां वाऽप्यापदि द्विजः । निस्तौर्य तामथात्मानं पावयित्वा न्यसेत् सुधौः” इति ।
For Private And Personal Use Only