________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
प्रायवित्तकाव्हम् ।
10
लादिस्पर्शेऽपि वाय्वातपाभ्यां शुद्धिः । तथाच याज्ञवल्क्यः, - “रथ्याकई मतोयानि स्पृष्टान्यन्यश्ववायसैः ।
मारुतार्केण शान्ति पक्केष्टकचितानि च ॥
पन्यानश्च वियन्ति सोमय्यांमारुतैः” - इति ।
बौधायनोऽपि -
Acharya Shri Kailassagarsuri Gyanmandir
“श्रासनं शयनं यानं नावः पन्थास्तृणानि च । मारुतार्केण शुद्यन्ति पक्केष्टकचितानि च" - इति ॥
उपरिभागस्पर्शे शङ्ख आह,—
-
१०३
" रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा पुनः ।
नाभेरूर्द्धं नरः स्पृष्टः सद्यः स्वानेन शुध्यति” – इति ॥ श्रधोभागस्पर्शे यमश्राह
"न कईमन्तु वर्षासु प्रविश्य ग्राममङ्करम् * । जङ्घयोर्मृत्तिकास्तिस्रः पादयोर्मृत्तिका स्मता” - इति ॥ उदकपानगतधारादीनामशुद्धिमपवदति
अदुष्टाः सन्तता धारा वातेाडूताश्च रेणवः । स्त्रियेोडाश्च बालाश्च न दुष्यन्ति कदाचन ॥ ३५ ॥ इति ॥
कमण्डल्वादिकात् निर्गत्य मुखपर्य्यन्तमविच्छिन्नापि उदकधारा नोच्छिष्टाः । नानाविधाश्शुचिप्रदेशाद्वा युनोत्थापिताश्रपि रेणवः
For Private And Personal Use Only
* ग्रामसंकरं ग्रामामेध्यप्रक्षेपादिस्थानम् । ग्रामसंस्कारम्, - इति सं
पाठः ।