________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
परापारमाधवः।
पान्तोवर्तन्ते, तथापि मेध्यं तावता नोच्छिष्टमिति योजनीयम्।
भूमिस्पृष्टोदकादावद्धिमपवदति,महीं स्पृष्ट्वाऽऽगतं तोयं याश्चाप्यन्योन्यविपुषः । भुक्तोच्छिष्टं तथा स्नेहं नाच्छिष्टं मनुवब्रवीत् ॥३२॥ इति॥
पादप्रक्षालनाचमनादावधःपतितं यदुदकं भूमि स्पृष्ट्वा पुनविन्दुरूपेणागत्य स्पृशति, ये चान्योन्यमुखोगता विन्दवः सम्भाषणे गरौरे पतन्ति, यश्च स्नेहोभोजनानन्तरं प्रक्षालनेनानिहार्यः, तत् मर्च नाडचितापादकम् । ___ मुखान्तर्गतताम्बूलादौनामुच्छिष्टशकामपवदति,ताम्बूलेछुफले चैव भुक्तस्नेहानुलेपने । भधुपर्के च सेामे च नाच्छिष्टं धर्मता विदुः॥३३॥ इति ॥
ताम्बूलञ्च दक्षुश्च फलं च ताम्बूलेक्षुफलम् । पूर्ववचनोकोऽपि शुक्रस्नेहोऽत्र दृष्टान्तत्वेन पुनरूपात्तः। मधुपर्कायज्ञविवाहादौ दया. दिभक्षणम् । भोमो यागे सोमपानम् । एतेषु नास्त्युच्छिष्टदोषः।
रथ्योदकादौ प्रयत्नेन कर्त्तव्यः शद्धिविशेषो नास्तोत्याह,रथ्याकस्मतायानि नावः पन्थास्तुणानि च। मारुतार्केण शुद्यन्ति पक्केष्टकचितानि च* ॥३४॥इति॥
पक्केष्टकचितानि चैत्यक्षवेदिकादौनि। निर्दिष्टानामेतेषां चण्डा
* 'पक' स्थाने 'पा' पाठः प्रायः सर्वत्र शा• पुस्तकादिषु ।
For Private And Personal Use Only