________________
Shri Mahavir Jain Aradhana Kendra
7° 1]
www. kobatirth.org
यमः, -
प्रायश्चित्तकाण्डम् |
"सुवर्ण रजतं ताम्रं चपु कृष्णायसं तथा । रौतिकाम सलोहानि(१)
Acharya Shri Kailassagarsuri Gyanmandir
ह्यन्तेऽश्मप्रघर्षण्णत् ” - इति ॥
१३५
“रजतस्य सुवर्णस्य ताम्रस्य त्रपुणस्तथा ।
रौत्ययःकांस्यमौम्मानां भस्मना शौचमिय्यते " - इति ।
उशनसापि । “सुवर्णरजतताम्रत्रपुमौसकांस्यानामद्भिरेव भस्मसंयुक्ताभिर्मणिमयानामद्भिरेव मृत्संयुक्ताभिस्तैजमानां चोच्छिष्टानां भस्मना त्रिः प्रचालनं, कनकमणिरजतभङ्खत्युपलानां वज्रविदलन रब्बुचर्मणाञ्चाद्भिः शौचम्” - इति । विष्णुः । “विण्मूत्ररेतःशवरक्तलिप्तमावर्त्तनोपलेपनतापनैर्वा * त्रिःसप्तकृत्वः परिमार्जनैर्वा भस्मना च शुह्यति । तैजसानाम् " - इति । एतेषां सर्वेषां यथायोगं चिरचिप्रसंलेपभेदेन व्यवस्था द्रष्टव्या ।
भाण्डस्य धान्यस्य चोच्छिष्टाभ्युपहतौ शद्धिमाह - मृणमये दहनात् शुद्धिर्धान्यानां मार्जनादपि ॥२७॥ इति ॥
दहनं सलेपविषयम् । श्रतएव बौधायनः । " मृणमयानां पात्राणामुच्छिष्टममन्वितानामवचूर्णनम्, उच्छिष्टले पोहतानां पुन
* मावर्त्तनोल्लेखनतापनाद्यैः - इति मु० |
+ भस्माम्बुना – इति मु० ।
+ पात्राणामुच्छिष्टसमारब्धानां प्रज्ञासनं, - इति मु० ।
(१) त्रपु रङ्ग, रीतिका पित्तलम् ।
For Private And Personal Use Only