________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चितकाण्डम् ।
“प्रावोनाम तपः प्रोकं चित्तं निश्चयउच्यते । तपोनिश्चयसंयुक्त प्रायश्चित्तं तदुच्यते ॥ प्रायशच समं चित्तं चारथित्वा प्रदीयते ।
परिषदा कार्यते यत्तत् प्रायश्चित्तमिति स्मृतम्” इति ॥ अनुष्ठितेन हादशवार्षिकवतादिनाऽवश्यं पापं निवर्त्तते, इति विश्वासोनिश्चयः । तेन संयुक्त व्रतानुष्ठानलक्षणं तपः प्रायश्चित्तम्। पापिनोऽनुतापिनश्चित्तं व्याकुलं सद्विषमं भवति, तच्च परिषदा येन व्रतानुष्ठानेन प्रायशोऽवश्यं समं कार्यते, ततं प्रायश्चित्तम् । चित्तसमौकरणोपपादनं चारयित्वा प्रदीयते, इति, व्रतं चारयित्वा चित्तवैषम्यनिमित्तं पापं प्रदीयते खण्ड्य ते विनाश्यते,इत्यर्थः । यदा, परिषद्युपविष्टानां सर्वेषां चित्तं यथा ममं भवति, तथा चारयित्वैकमत्येन विचार्य प्रदीयते विधीयते कार्यते अनुष्ठाप्यते,-वृत्यर्थः ।
अचेदं चिन्यते । किमिदं प्रायश्चित्तं नित्यं, उत नैमित्तिक, अथवा काम्यम् ? इति । अत्र केचिदाहुः । “प्रायश्चित्तैरपैत्येनःइत्यादिस्मृतिषु पापक्षयस्य फलत्वेनावगमात् कामस्याधिकारात्* काम्यं, यथा वृध्यादिफलकामस्य कारौर्यादि। अन्ये मन्यन्ते। पापं निमित्तौकत्य विधानान्नैमित्तिकम् । यथा रहदाहं निमित्तौकृत्य प्रवृत्ता क्षामवनौष्टिः । अपरे वाहुः। प्रकरणे प्रत्यवायदर्शनान्नित्यं, यथा सन्ध्यावन्दनादि । प्रकरणे प्रत्यवायश्च मनुना दर्शितः,
“चरितव्यमनोनित्यं प्रायश्चित्तं विश्राद्धये । * फलकामस्याधिकारात्, इति पाठोभवितुं युक्छः ।
For Private And Personal Use Only