________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[8
.1
प्रत्यग्दृष्टिररुन्धतीसहचरोरामस्य पुण्यात्मनोयदत्तस्य विभोरभूत् कुलगुरुमन्त्री तथा माधवः ॥ प्रज्ञामूलमही विवेकसलिलैः सिक्का वलोपतिका मन्त्रैः पल्लविता विशालफ्टिपा सन्ध्यादिभिः षड्गुणोः । शाल्या कारकिता यश:सुरभिता मिया समुद्यत्फला सन्प्राप्ता भुवि भाति नौतिलतिका सर्वोत्तरं माधवम् ॥ श्रीमती जननी यस्य मुकौभिजायण: पिता । मायणोभोगनाथश्च मनोबुद्धी महोदरौ' ॥ यस्य बौधायन सूत्रं शाखा यस्य च याजुषौ । भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥
स माधवः सकलपुराणसंहिताप्रवर्तकः स्मृतिमुखमा! परामरः । पराशरस्मतिजगदौहिताप्तये
पराशरस्मतिविवृतौ प्रवर्तते ॥ श्रीपराशरेणाचारकाण्डरूपेणातौतेनाध्याथवयेण विधिनिषेधौ दर्शितौ। अथेदानीं तदुप्लङ्घननिमित्तपातित्यपरिहारोपायप्रतिपादकं प्रायश्चित्तकाण्डमारभ्यते । प्रायश्चित्ताब्दच रूढ्या योगेन च पापनिवर्तनक्षमं धर्मविशेषमाचष्टे । प्रायश्चित्तशब्दोऽयं पापचयार्थ नैमित्तिके कर्मविशेष रूढः, इत्याहुः सम्प्रदायविदोनिबन्धनकारादयः । योगस्वगिरमा दर्शितः,* शोकाविमौ व्यन्यासेन वर्तते मु० पुस्तके । + स्मृतिसुषमा। निवन्धनकाराः, इमि मु. पुस्तके पाठः ।
For Private And Personal Use Only