________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७प.]
प्रायश्चित्तकाखम् ।
प्रवहन्यां नद्यां पतितान्युछिष्टामेध्यादौनि यदा प्रवाहवेगेन खानतीर्थमतिक्रम्य गच्छन्ति, तदा तस्मिंस्तीर्थ लेपशेषो यावत् दृश्यते तावनास्ति शुद्धिः, तददर्शने तु स्वानपानादिकार्थं शङ्खवेयं नदी। सत्यपि लेपे यद्यक्षोभ्योदकयुक्ता मा नदी, तदा लेपयुक्त तत्तीर्थमात्रं वज्य इतरप्रदेशेषु मा नदी शुद्धा । तदाह देवलः,
“अक्षोभ्यानि तटाकानि* नदीवापीसरांसि च ।
कश्मलाशचियुतानि तीर्थं तत् । परिवर्जयेत्” इति ॥ नदौद्धिमुक्का कूपादिशद्धिमाह,वापीकपतड़ागेषु दूषितेषु कथञ्चन ॥३॥ उद्धृत्य वै घटशतं पश्चगव्येन शुद्ध्यति ।
कूपादिदूषणं द्विधा श्रूयते, श्वमार्जारादीनां तच पतितानां मरणात् मतगवानां तत्रैव चिरं क्षरणच। तत्र मरणमात्रविषयमिद विशोधनम्। एतदेव हारीतोऽप्याह,
वापीकूपतड़ागेषु दूषितेषु विशोधनम् । घटानां मतमुद्धृत्य पञ्चगव्यं क्षिपेत्ततः” इति ॥ सम्बोऽपि,
"वापौकूपतड़ागानां दूषितानाच श्राद्धये ।
अपां घटतोद्धारः पञ्चगव्येन शोधनम्” इति ॥ * तटाकस्थाने तड़ागपाठः वङ्गोयपुस्तकेषु । वैपरीत्यं पाश्चात्यदाक्षिणा
त्यपुस्तकेष प्रायः। + तीर्थतः,-इति मु०। | कुम्भशतं,-इति मु.। । पञ्चगव्यास प्रक्षिपेत्, इति ।
For Private And Personal Use Only