________________
Shri Mahavir Jain Aradhana Kendra
११०
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
[६ ० ।
अमेकाढ़कं पक्कं वकाकाद्युपघातितम् ।
केकीटावपन्नञ्च तदप्येवं विशुद्ध्यति ॥ क्रौतस्यापि विनिर्दिष्टं तद्वदेव मनीषिभिः” - इति ।
शातातपोऽपि -
“केशकीटना स्पृष्टं वायसोपहतञ्च यत् । क्लौवाभिशस्तपतितैः सूतिकोद क्यनास्तिकैः ॥ दृष्टं वा खाद्यदन्नं तु तस्य निष्कृतिरुच्यते । अभ्युच्य किञ्चिदुद्धृत्य तद्भुत विशेषतः ॥ भस्मना वाऽपि संस्पृश्य संस्पृशे दुल्मुकेन वा । सुवर्णरजताभ्यां वा भोज्यं प्रातं मुखेन गो: ” - इति ॥ हारौतोऽपि । “श्वकाकग्टत्रोपघाते केशकौटपिपीलिकादिभिराद्युपघाते काञ्चनभस्म रजततास्रवज्रवैदुर्य्यगोवालाजिनेभदन्तानामन्यतमेनाद्भिः संस्पृष्टं मन्त्रप्रोचणपर्य्यग्निकरणादित्यदर्शनात् शुद्धिर्भवति" - दूति ।
नस्य शुद्धिमुक्ता रसस्य शुद्धिमाह,
स्नेहा वा गारसा वाऽपि तत्र शुद्धिः कथं भवेत् ॥७४॥ अल्पं परित्यजेत् तत्र स्नेहस्य पवनेन च । अनलज्वालया शुद्धिर्गेौरसस्य विधीयते ॥ ७५ ॥
For Private And Personal Use Only
स्नेहस्तैलादिः, गोरसः चौरादिः । तत्राल्पं चेत् वादिभिरुपहतं तत् त्याज्यमेव । 'अल्पत्य स्नेहस्य पाकेन शुद्धिः । अल्पस्य गोरसस्य वह्निज्वालया पर्य्यग्निकरणेन शुद्धिः । तदाह लौगाचिः, -