________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
तत्पापं गच्छतौति पूर्ववाक्यादनुषज्यते । तत्र हेतुः। महत्कार्योपरोधेनेति। महतां देवतोपासकानां योगिनां कार्यं महत्कार्यमन्तकाले देवतास्मरणादि, तस्योपरोधः प्रतिबन्धः। मुमूर्षुर्हि परिसरवर्त्तिभिराप्ताधितोदेवतां स्मर्तुमुद्युके, तदानीमेव तदुकं व्रतकर्त्तव्यतां श्रुत्वा कर्तुमा कुवन् व्याकुलचित्तः पूर्व मुद्द्युक्तां देवतास्मृतिमपि परित्यजति। मोऽयं पुरुषार्थप्रतिबन्धस्तस्य च निमित्तं प्रायश्चित्तविधातारदति युतस्तेषां प्रत्यवायः। एवं तर्हि सर्वत्र प्रायश्चित्तं विधातुं भौताः स्युरित्यागयोनं, न स्वस्थस्य कदाचनेति। स्वस्थशरीरस्य पूतिः कार्यापरोधः कदाचिदपि नास्तीति तं प्रति प्रायश्चित्तं विधातुं न भेतव्यमिति भावः।
व्याधिव्यमनिनौत्यत्र प्रतिनिधित्वेन व्रतमनुष्ठेयमित्युक्तम्। इदानों तस्य व्यतिरेकमाह,स्वस्थस्य मूढाः कुर्वन्ति वदन्ति नियमन्तु ये ॥ ५८॥ ते तस्य विघ्नकर्तारः पतन्ति नरकेऽशुचौ।
ये तु मूढ़ा व्याध्यादिग्रस्तस्यैव प्रतिनिधिरिति शास्त्ररहस्यमजानन्तः स्वस्थस्य कस्यचित् परिबढ़ादे:(१) दाक्षिण्यादिना तदीयं अतनियममनुतिष्ठन्ति , तस्य च नियमाभावं शास्त्रीयत्वेन वदन्ति,
* तदीयं ब्रतं खयमेवानुतिष्ठन्ति, इति मु ।
(१) परिचम प्रभुः।
For Private And Personal Use Only