________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
पराशरमाधवः।
मति(१), तथापि परीक्षामकृत्वा प्रायश्चित्तं विधातुरयथाशास्त्रानुछाननिमित्तं पापान्तरमुदेतीत्यभिप्रेत्य तत्पापं तेषु गच्छतौत्युक्तमिति(२) । एवं प्रायश्चित्ताधिकारिणं सम्यक् परीक्ष्य प्रायश्चित्तं विधेयम् । तदाह देवलः,
"कर्तारं देशकालौ च प्रमाणं कारणं क्रियाम्।
अवेक्ष्य च बलञ्चैव प्रायश्चित्तं विधीयते"-दति ॥ बौधायनोऽपि,... "शरीरं बलमायुश्च वयः कालं च कर्म च ।
परीक्ष्य धर्मविद्यया* प्रायश्चित्तं प्रकल्पयेत्”-दति ।। अनुग्रहमनर्हतः प्रबलस्यानुग्रहे यथा प्रत्यवायः, तथाऽनुग्रहयोग्यस्य दुर्बलस्य नियमविधानेऽपि प्रत्यवायइत्याह,शरीरस्यात्यये प्राप्ते वदन्ति नियमन्तु ये ॥५७॥ महत्कार्योंपरोधेन न स्वस्थस्य कदाचन ।
शरीरस्यात्यये मुमूर्षा म्यां प्रायनं, तस्मिन् प्राप्ते सति, तेन कर्तुमशक्यं प्रायश्चित्तव्रतादिनियमो कर्तव्यत्वेन ये वदन्ति, तेषु
* धर्मविदुषा,-इति स० प्रा० । + प्राजापत्यव्रतादिनियम,-इति मु० ।
(१) समवेतस्य पापस्य विद्यमानखाश्रयत्यागेनापराश्रय प्राप्तरसम्भवादिति भावः। (२) तथाच, तत्पापं तत्सहा पापान्तमित्यर्थः।
For Private And Personal Use Only