SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ च ॥ प्रायश्चित्तकाण्डम् । “यं यं लोकं मनसा मंविभाति विशद्धमत्त्व: कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामान् तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः" इति । अन्वयव्यतिरेकाभ्यां महदनुग्रहस्य विषयं दर्शयति;दर्बलेऽनुग्रहः प्रोक्तस्तथा वै बालवयाः॥ ५५ ॥ ततोऽन्यथा भवेदोपः तस्मान्नानुग्रहः स्मृतः । दुर्बलः पूर्वाकव्याधिग्रस्तादिः । दुर्बलबालवृद्धानामनुग्रहणे योग्यामहान्तोदेवलेन दर्शिताः, "प्रायश्चित्तं यथोद्दिष्टमशक्यं दुर्बलादिभिः । दुय्यतेऽनुग्रहस्तेषां लोकसंग्रहकारणात् ॥ एकोनाईति तत्कर्तुमजोवा नाप्यनुग्रहम् । धर्मज्ञा बहवो विप्राः कर्तुमर्हन्यनुग्रहम्'-दति ॥ अतोऽन्यथा प्रबलस्थानुग्रहे प्रत्यवायः । तस्मात्तानानुग्टलीयात् । प्रबलं युवानमनुग्टहृतः प्रत्यवायो विशदयति,-- . स्नेहादा यदि वा लाभाड्यादज्ञानताऽपि वा ॥५६॥ कुर्वन्त्यनुग्रहं ये तु तत्यापं तेषु गच्छति । स्नेहादनुग्रहः पुत्रमित्रादिषु, लोभाद्धनिकेषु, भयाद्राजादिषु, अज्ञानादुर्बलेष्वनुग्रह इति । शास्त्रमज्ञात्वा पण्डितं मन्यतया यस्मिन् कस्मिंश्चिदनुग्रहः । यद्यपि परकीय पापमितरस्मिन्न संक्रा For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy