________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,श्रा का०]
पराशरमाधवः ।
मज्जायत*"-इति शून्यस्य कारणता-प्रतिषेधात् । ननु प्रतीयमान-जगदाकार-रहितं शन्यादपि विलक्षणं चेत् ब्रह्म, तर्हि, तत् कीदृशं बुद्धावारोपयितव्यम् ॥ इति चेत्। दूदानी प्रष्टुं यादृशमनूदितं, तादृशमेव तदिति बुद्धिं समाधत्व(१)। दृष्टान्नं चेत् पृच्छसि, न वयं वकुं शक्नुमः । तत्-समस्य वस्त्वन्तरस्थाभावात् । तथा च श्रुतिः ,
"न तस्य कार्ये करणञ्च विद्यते
___ न तत्-समचाभ्यधिकश्च दृश्यते” । इति। यदि, शिष्य-व्युत्पादनाय दृष्टान्ताभासेाऽपेक्षितः|| (२), तर्हि, अद्वैताकारे सुषुप्तिर्निदर्शनम्, पुरुषार्थ-स्वरूपत्वे चा विषयानन्दोनिदर्शनीयः । “आनन्दोब्रह्मेति व्यजानात्”–इति* * "विज्ञानमानन्दं ब्रह्म"-इत्यादि श्रुतेः । अशेष-शङ्का निवृत्त्यपेक्षा चेत्, ब्रह्ममीमांसां पठ,-दत्यलमतिविस्तरेण ।
• सज्जायेत,-इति स० पुस्तके पाठः । + ननु, इति मु० पुस्तके नास्ति | + बुयादावारोपयितव्यम् ,--इति मु• पुस्तके पाठः । ६ तादृशशब्दं-इति मु. पुस्तके पाठः । || दृष्टान्ताभ्यासेाऽपेक्षितः,-इति मु• पुस्तके पाठः । पा 'च' इति मु. पुस्तके नास्ति । ** 'इति' शब्दः स. सो. पुस्तकयोनास्ति ।
(१) तथा च जगदाकाररहितं शून्यादपि विलक्षणं ब्रह्म, इत्येव वुद्धा
वारोपयितव्यमित्यर्थः । (२) दृष्टान्तवदाभासते,-इति दृष्टान्ताभासः, न तु परमार्थदृष्टान्त
इत्यर्थः ।
For Private And Personal