________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
या सका।
यावन्तं कालमभिव्यक-जगदाकारोपेतं ब्रह्म पूर्वमासीत् , तावन्त मेव कालमनभिव्यकदशायामवस्थाय(१) पश्चादभिव्यक्ती प्रयतते । ननु, महाप्रलये, कालोवा तदियत्ता वा कथं घटते ? (२) । उच्यते। के प्रत्येतचोद्यम्?(१) न तावत् ब्रह्म-वादिनं प्रति, 'तन्मते वियदाद्यनन्तभेद-जगत्-प्रतीति - कल्पयन्यामायायाः कश्चिन्महाप्रलयः एतावत्काल-परिमितत्रासीत्,-इत्येवं विध-प्रतीति-मात्र-कल्पने कोभारः?(४) । (५)परमाणु-वादेऽप्यस्खेव नित्यः कालः। (५)प्रधान-वादे
* भेदभिन्नं जगत् प्रतीतं-इति स० मा पुस्तकयाः पाठः ।
(१) अनभिव्यक्तदशा महाप्रलवः। (२) कालस्य क्रियारूपत्वात् महाप्रलये च क्रियाया असम्भवादिति भावः।
तदियत्तापि क्षणादिलक्षणा कियासाध्यैव । प्रश्नायं 'क्रियैव काल'
इति मतानुसारेणेति वाध्यम् । (३) क्रियातिरिक्तः पदार्थान्तरं कालः, इति मतमाश्रित्य प्रथमं तावत्
वेदान्तमते परिहारमाह न तावदिति । (8) तथा च रतन्मते दृषिप्रलयौ हावेव माया-कल्पिताविति भावः ।
न्याय-वैशेषिकमते परिहारमाह परमाणुवादे इति । एतन्मते प्रलय
कालस्येयत्ताव्यवहारोवमेनोपपादनीयः, इत्याकरे व्यक्तम् । (६) सांख्यमते परिहारमाह प्रधानवादे इति । प्रधानं प्रकृतिः । पञ्च
विंशति तत्त्वानि तु प्रकृतिमहदहवारपञ्चतन्मात्र एकादशेन्धिय-पत्र महाभूत-पुरुषरूपाणि सांख्ये प्रसिद्धानि । एतन्मते, प्रलयेऽपि प्रधानस्य सदृशपरिणामप्रवाहसत्त्वात् नानुपपत्तिस्तदियत्ताया इति ध्येयम् । इदमत्रावधेयम् । सांख्यीये सिद्धान्ते न कासोनाम पदार्थोऽस्ति, किन्तु येण्याधिभिरेकस्य कालस्य भूतभविष्यदादिष्यवहारभेदं वैशेषि कादयामन्यन्ते, तरवायाधयाभूतादिव्यवहारं प्रयोजयन्तीति कृतमत्र कालेन, इति सांख्यतत्त्वकौमुद्यामभिहितम् । एतच्च कालमाधवोयग्रन्थे यन्यकृताप्युरीकृतम् ।
For Private And Personal