________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,या का।
ज्ञान-जनकत्वाकारेण मत्-खरूपत्वात् । अक्षर-शब्दश्च,-'अश्रुतः'इति वा, 'न क्षरति' इति वा, परमात्मानमाचष्टे । अव्याकृतशब्दोऽपि, तस्मिन् योजयितुं शक्यते; 'वि स्पटम् श्रा समन्तात् कृतम्' -दति व्युत्पत्त्या, जगतः प्रतीति-योग्य-स्थूलत्व-दशा व्याकृतम् , 'न ध्याकृतम्'-दति, अव्याकृतशब्दः सूक्ष्मत्व-दशामाइ । एकस्यैव वस्तुनः स्थूल-सूक्ष्म-दशे जगद्-अक्षर-शब्दाभ्यामुच्यते । विवर्त्त-वादिभिरखण्डैकरसस्य ब्रह्मोजगद्र्पेण प्रतिभासाभ्युपगमात् (१)। तस्मात् अव्याकृतब्रह्मादीनां पञ्चानां शब्दानाम् (२) एकएवार्थः ।
मनु, क्वचित् शून्यस्य(२) जगत्-कारणत्वं श्रूयते ;-"असदाइदमय श्रामीत्, ततोवै सदजायत" इति। मैवम् । तत्र, मद्-असत्शब्दाभ्यां व्यारताव्याकृतयोरभिधानात्। श्रुत्यन्तरे, “कथममतः
* सूक्ष्मां दशामाह,-इति स. सो० पुस्तकयाः पाठः। + एकस्यैव च,-इति स० से० पुस्तकयाः पाठः ।
(१) विवर्तवादे व्यन्यस्यान्यरूपेण प्रतिभासमात्रं मायिकम् । न तु वस्तनो
ऽन्यथाभावः। यथा रन्जुरेव साकारेण प्रतीयते, न तु रज्ज्वाचन्यथात्वं भवति, एवं ब्रह्मैव जगदाकारेण प्रतीयते न तु ब्रह्मणोऽन्यथा. भावोभवति । तथा चोक्तम् । “स-तत्त्वतोऽन्यथा प्रथा विवर्त्तइत्युदीरितः" इति । तथाच, ब्रह्मणः स्थूलरूपत्वं प्रातिभासिकं सूक्ष्मरूप. वन्त तात्त्विमिति विवेकः । परिणामवादे तु स्थूलरूपत्वमनायासगम्यमिति तन्त्रोक्तम् । बारम्भवादस्तु वैशेषिकाद्यनुमतः पुरुषबुड्युत्
प्रेक्षामात्रमल-इति मूलप्रमाणाभावादुपेक्षित इति मन्तव्यम् । (२) अव्याकृत-ब्रह्म-सत्-बक्षर-यात्म-शब्दानामित्यर्थः । (३) शून्यमभावः।
For Private And Personal