________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
११.,खा.का.।
(१)महदादि-विशेषान्तं यदा संयाति संक्षयम् । प्राकृतः प्रतिसाऽयं प्रोच्यते काल-चिन्तकैः ।
ज्ञानादात्यन्तिकः प्रोकोयोगिनः परमात्मनि'(२) । इति । तत्र, प्राकृतः प्रलयः स्कन्द-पुराणे सूत-संहितायामेवं निरूपितः,
"विशतैः षष्टिभिः कल्पैर्ब्रह्मणोवर्षमीरितम् । वर्षाणां यत् शतं तस्य तत्पराईमिहाच्यते । ब्रह्मणोऽन्ते मुनि-श्रेष्ठा: ! मायायां लीयते जगत् । तथा विष्णुश्च रुद्रश्च प्रकृती विलयं गती।
(१) प्राकृतप्रलयमाह महदादीति । महदादिविशेषान्तमिति महदह
सारपञ्चतन्मात्रैकादशेन्द्रियपञ्चमहाभूतानीत्यर्थः। तत्र महत्तत्त्वं प्रकृतेः प्रथमः परिणामः, तत् बद्धितत्त्वमित्यप्युच्यते । तत्रकादशेन्द्रियाणि पञ्चमहाभूतानि च,-इति घोड़शकोगणोविशेषइत्युच्यते। अहङ्कारः पञ्चतन्मात्राणि च इति धड़विशेषाः। तत्राहकारस्याविशेषस्य विशेषा एकादशेन्द्रियाणि,तन्मात्रलक्षणानाचाविशेषाणां विशेषाः पञ्चमहाभूतानीतिविवेकः। महत्तत्त्वन्त न विशेषोनाप्यविशेषः किन्त लिङ्गमात्रमित्याख्यायते । प्रकृतिश्चालिङ्गमित्युच्यते । एतत् सव्वं पातञ्जले सांख्ये च व्यक्तम् । अत्र महदादीनां सर्वेषां प्रकृती लयात् प्राकृतोऽयं प्रलयः । प्रतिसर्गः प्रलयः। ज्ञानात् सत्त्वपुरुषान्यता-साक्षात्कारात् योगिनायः परमात्मनि लयः सोऽयमात्यन्तिकः। न तस्य पुनरारत्तिरस्ति, “न स पुनरावर्तते" - इति श्रुतेः । प्रकृतिलीनस्य त्वस्ति पुनरारत्तिः ऋते विवेकख्यातेरिति सांख्ये पातञ्जले च व्यक्तम् । तस्मात् प्रकृतिलयस्य नास्त्यात्यन्तिकप्रलयत्वमिति वाध्यम् ।
For Private And Personal