________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१ घ०,या का।
पराशरमाधवः।
"वहुधा दृश्यते धर्मः सूक्ष्मएव द्विजोत्तम !" इति । इत्थं स्थूल-सूक्ष्मयोः सद्भावात् युक्तस्तदुभय-विषयः प्रश्नः ॥ उन-प्रश्नस्य वक्ष्यमाणोत्तरस्य च असाङ्कायोत्तरमनतारयति,व्यास-वाक्यावसाने तु मुनि-मुख्यः पराशरः ॥१८॥ धर्मस्य निर्णयं प्राह सूक्ष्म स्थूलञ्च विस्तरात् । इति । 'मुनि-मुख्य-इति विशेषणेन सूक्ष्म-निर्णय-कौशलं दर्शितम्। ननु, “कस्यायं स्लोकः ?, न तावत् व्यासस्थ, प्रश्न-रूपत्वाभावात् , नापि पराशरस्य, उत्तर-रूपतायाः अभावात् । 'ननु, श्रत्यल्पमिदमुच्यते, श्राद्य-लोकेऽपि समानमिदं चोद्यम्' । एवन्ताई ईदृशेषु सर्वेषु परिहारोऽन्वेष्टव्यः” । उच्यते, पराशरएव भाविशिष्य-बुद्धि-समाधानाय स्वकीय-वृत्तान्त-ज्ञापकान् ईदृश-श्लोकान् निर्ममे, इति द्रष्टव्यम्। भारतादौ व्यास-वृत्तान्त-श्लोकानां व्यासेनैव निर्मितत्वेन सर्व-संप्रतिपत्ते:(१) ॥ वक्ष्यमाण-धर्म-रहस्य-ग्रहणाय अप्रमत्तत्वं विधत्ते,
(१) 'व्या चाऱ्याणामियं शैली,-यत् खाभिप्रायमपि परोपदेशमिव वर्ण
यन्ति' इति न्यायोऽत्र स्मर्त्तव्यः । अनयैव रीत्या, -- "काणपि जैमिनिः फलार्थत्वात्” (मी. ३ अ० १ पा० ४ सू०) इति जैमिनेः, "तदुपर्यापि वादरायणः सम्भवात्" (शा० १ अ° ३ पा० २६ सू०) इति वादरायणस्य च सूत्रमुपपद्यते । यदि तु पराशरोक्तोधर्मः केनचित् तच्छिष्येण पश्चादुपनिवदः, इति समाधीयते, तदा न काचिदस्तक्षतिः। पराशरोक्तधर्मप्रतिपादकतया तु ग्रन्थस्यास्य परा. परीयत्वस्याप्युपपत्तेरिति ध्येयः ।
For Private And Personal