________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराभरमाधवः।
[१०,श्रा का
मतिभिरपि सुखेन बुध्यमान: शौचाचमन-सन्ध्या-वन्दनादिः स्थूलधर्माः । शास्त्र-पारङ्गतैः पण्डितैरेव बोद्ध योग्यः ; इतरेषामधर्मत्वभ्रान्ति-विषयोद्रौपदी-विवाहादिः सूक्ष्मोधर्मः । तथा च महाभारते,द्रपदः एकस्याः योषितो वहु-पतित्वं लोक-वेद-विरुद्धं मन्वानः अधिचिक्षेपा(१) । तत्र, लोक-विरोधः स्फुटएव तिर्यक्ष्वपि, एकस्यां गवि वृषभ-दय-युद्ध-दर्शनात् । वेदेऽप्येवं श्रूयते । “एकस्य बह्यो जायाभवन्ति, नैकस्थावहवः स्युः पतयः” इति । “यदेकस्मिन् यूपे दे रशने परिव्ययति, तस्मादेकोढे जाये विन्दते, यनैकागुं| रथनां द्वयोर्यपयो: परिव्ययति तस्मान्नैका द्वौ पती विन्दते"इति च । तत्र, द्रुपद-भ्रान्ति-मिवृत्तये युधिष्ठिराह,
"लोक-वेद-विरुद्धोऽयं धर्माधर्मभृतां वर ! | |
सूक्ष्मोधामहाराज ! मास्य विद्म गतिं वयम्" । इति । धर्मवञ्च बहु-पतित्वस्य तत्रैव वहुधा प्रपञ्चितम् । एवं धर्मव्याधोपाख्याने,-विद्याऽभ्यासाद्गरीयमी मातापिट-शुश्रूषा, विनाऽप्यन्यास तच्छुश्रूषयैव तस्य ज्ञानोत्पत्तेः, इति प्रतिपाद्य सूक्ष्मत्वं धर्मस्य निगमितम्,
* कन्यायाः, इति स. मापुस्तकयोः पाठः । + याचचक्षे,-इति मु० पुस्तके पाठः । । स्युः, - हूति स. से. पुस्तकयानीस्ति । 5 यन्नैकां,-इति स० से. पुस्तकयाः पाठः । ॥ धर्मवतां वर, शति मु. पुस्तके पाठः। ..
(१) एकस्याद्रौपद्याः पञ्चभिः पाण्डवैर्विवाहमधिक्षिप्तदानित्यर्थः ।
For Private And Personal