SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । [११०या०का । इति । ईदृशस्यापि धर्मस्य स्वरूपमव्याकुलोजानातीत्यस्ति तत्र प्रावीण्यम् । धर्म-स्वरूपञ्च विश्वामित्राह, "यमार्याः क्रियमाणन्तु शंसन्यागमवेदिन: । सधीय विगईन् तमधर्म प्रचक्षते । ईदृशस्य हि धर्मस्य स्वरूपं व्याकुलोन तु । जानातीत्यस्ति तत्रापि प्रावीण्यं धर्म-शालिनाम्" । दाते । मनुरपि, “विद्वद्भिः सेवितः मद्भिनित्यमद्वेष-रागिभिः । हृदयेनाभ्यनुज्ञातोयोधर्मस्तं निवेधित"(१) । इति । नन्वेवं धर्म-स्वरूपमनिरूपितमेव स्थात् || तथाहि, विश्वामित्रमनु-वाक्याभ्यां तावत् सामान्याकारः प्रतीयते, नतु द्रव्य-गुणादि * शंसन्त्यागमवेदिभिः,-इति तिथितत्त्वे पठः । “आगमवेदिभिः क्रिय माणमिति संवन्धः,"-इति व्याख्यातच तत्र । + विगईन्ति,--इति तिथितत्त्वे पाठः। + एतदनन्तरं 'इति'ब्दोमुद्रितपस्तके प्रामादिक इति लक्ष्यते । उत्तर लोकस्यापि विश्वामित्रीयत्वं वक्तव्यं अन्यथा असतेः । विश्वामित्रवाक्ययोर्मध्ये च 'इति'शब्दो न सङ्गच्छते । 5 कोऽयं स० स० पुस्तकयानास्ति । || धर्मोऽनिरूपितएव स्यात्,-इति मु• पुस्तके पाठः । (१) विद्भिरित्यस्य वेदविद्भिरित्यर्थः । वेदविह्निः मेवितः, इत्यनेन वेद प्रमाणकत्वमुक्तं । हृदयेनाभ्यनुज्ञातइत्यनेन श्रेयःसाधनत्वमुक्त। तत्र हि हृदयमभिमुखीभवति । तथा च, वेदप्रमाणकः श्रेय साधनोधर्म इत्युक्तं भवति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy