________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०, था.का.]
पराशरमाधवः।
श्रुतायते भवत्-प्रोताः श्रुत्यामे* न विस्मृताः॥१५॥ अस्मिन् मन्वन्तरे धमाः कृत-चेतादिके युगे। इति। ये प्रत्यक्ष-श्रुतीनामा: अग्निहोत्रादयोधाः , एते मया श्रुताः। तदेतत् तवापि प्रसिद्धम् ,-दति द्योतनाहि -शब्दः। तत्र हेतुः; 'भवत्-प्रोकाः'-दति। व्यासः पराशरादधीतवान , इति पौराणिकाः। श्रुतानामपि विस्मृतिश्चेत्, पुनरपि स्मरणमपेक्ष्येतो,इत्याशक्य 'न विस्मृताः' इत्युक्तम् । प्रायेणाग्निहोत्रादीनां कली दुर्लभत्वमभिप्रेत्य ‘कृत-त्रेतादिके' इत्युकम् । श्रादि-शब्देन छापरं ग्टह्यते। 'अस्मिन् मन्वन्तरे'-इति निर्देशः प्रदर्शनार्थः । नतु, मन्वन्तराण्यतीतान्यनागतानि वा व्यवच्छिद्यन्ते । नयवच्छेदे प्रयोजनाभावात् । न हि, नानाविधेषु मन्वन्तरेषु धर्म भिद्यमानं क्वचिदुपलभामहे । अस्मिन् मन्वन्तरे कृतादिकेषु युगेषु प्रायेण सम्भावितानुष्ठानाः प्रत्यन-श्रुत्याः ये धमाः, तेऽपि मानवादि-स्मार्तधर्मवत् श्रुतत्वान्न वुभुत्मिताः ॥
इदानों परिशिष्टं वुभुत्सितं पृच्छति,सर्वे धमाः कृते जाताः सर्वे नष्टाः कलौ युगे॥१६॥ चातुर्वर्ण्य-समाचारं किञ्चित् साधारणं वद। इति । सर्च-शब्दोदेश-कालावस्थादि-भदेन धर्माणं वहुविधत्वमा चटे । एतच महाभारते श्रानुशासनिके पर्वणि उमा-महेश्वर-संवादे प्रपञ्चितम्,* श्रोतार्थास्ते,-इति स०, सा०, मु० मू० पुस्तके घु पाठः । श्रवणमपेक्ष्येत,--इति समीचीनः पाठः ।
10
For Private And Personal