________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
३
च०,था.का..
“वनयस्तु ये विप्रा ये चैकामय एवच ।।
तेषां मपिण्डनादूर्ध्वमेकोद्दिष्टं न पार्वणम्” इति स्मृत्यन्तरे सानिकस्याप्येकोद्दिष्टविधानात्(२) । एकोद्दिष्टलक्षणमाह याज्ञवल्क्यः,
"एकोद्दिष्टं दैवहौनमेकाधैंकपवित्रकम् । श्रावाहनानौकरणरहितं ह्यपसव्यवत् । उपतिष्ठतामित्यक्षय्यस्थाने विप्रविसर्जनम् ।
अभिरम्यतामिति वदेव्युस्तेऽभिरतास्म ह” इति। कात्यायनोऽपि । “अथैकोद्दिष्टमेकं पात्रमेकोऽर्थ एकं पिण्डं • नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः खदितमिति बप्तिप्रश्नः सुखदितमित्यनुज्ञानमुपतिष्ठतामित्यक्षय्यस्थाने अभिरम्यतामिति विमर्ग अभिरतास्मेत्यपरे"-इति। तच्चैकोद्दिष्टं त्रिविधं, नवं नवमिश्रं पुराणं चेति। अत्र प्रथमाहायेकादशाहान्तविहितं नवश्राद्धम्। तथा चाङ्गिराः,
"प्रथमेऽहि हतीये च पञ्चमे सप्तमेऽपिवा ।
नवमैकादशे चैव तन्त्रवश्राद्धमुच्यते"-इति ॥ वसिष्ठोऽपि,
* एकः पिण्ड इति ना।
(१) वश्मयः श्रौतामिमन्तः। एकामयः मानिमन्तः। (२) तथाच पार्वणैकोद्दिथ्योर्विकल्पव्यवस्थैव साधीयसौति भावः ।
For Private And Personal