________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१. था. का.
पराशरमाधवः ।
"श्रमाया तु चयो यस्य प्रेतपक्षेऽथवा पुनः ।
पार्वणं तस्य कर्त्तव्यं नैकोद्दिष्टं कदाचन"-इति ॥ यतेस्तु न काप्येकोद्दिष्टं, किं तु सर्वत्र पार्वणमेव । तथाच प्रचेताः
"दण्डग्रहणमात्रेण नैव प्रेतो भवेद्यतिः ।
अतः सुतेन कर्तव्यं पार्वणं तस्य सर्वदा” इति ॥ पत्र केचित्पावणैकोद्दिष्टयोरन्यथा व्यवस्थामाहुः,
"प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ ।
कुर्यातामितरे कुर्युरेकोद्दिष्टं सुतादन”-इति जावकर्यवचनात्(९) । तदयुक्रम्,
"एकोद्दिष्टं तु कर्तव्यमौरसेन मृतेऽहनि ।
मपिण्डौकरणादू मातापित्रोस्तु पार्वणम्"-इति पैठौनसिवचनविरोधात्(२) । जावकर्यवचनं तु क्षयाहव्यतिरिकप्रत्यब्दकर्त्तव्याक्षयटतीयादिविषयत्वेनाप्युपपद्यते। यत्तु सुमन्तुनोकम,
"कुर्याच विधिवक्राळू पार्वणं योऽमिमान् द्विजः । पिबोरननिमान्धौर एकोद्दिष्टं मृतेऽहनि"-इति ॥ तदयुक्तम,
(१) तथा चौरसक्षेत्रणयोः पार्वणमन्येषामेकोहियमिति केषांचिन्मते
व्यवस्था पर्यावस्यति । (२) पैठौगतिवचने औरसस्याप्येकोहिछविधानात्तविरोधः ।
For Private And Personal