________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७६६
पराशरमाधवः।
[३१०, खा० का० ।
ननु दातिदेशान्मातामहानामपि श्राद्धं प्रसज्येत(१)। नायं दोषः । प्रत्याब्दिके पिण्डानां पर्युदस्तत्वात् । तथाच कात्यायनः,
"कममन्वितं मुक्का तथाऽऽद्यं श्राद्धषोडशम्(२) । प्रत्याब्दिकच्च शेषेषु पिण्डाः स्युः षडिति स्थिति" इति । क—समन्वितं मपिण्डीकरणम्(२) । यत्तु यमेनोकम्,
"मपिण्डीकरणदूर्व प्रतिसम्बत्सरं सुतैः । । मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि"-इति ॥ या मृताहं प्रकृत्य व्यासेनोकम,
"एकोद्दिष्टं परित्यज्य पार्वणं कुरुते नरः।
अकृतं तद्विजानीयाद्भवेश्च पिढघातकः” इति ॥ तत्र पार्वणैकोद्दिष्टयोर्विकल्पः। तत्रापि वृद्धवाचारतो व्यवस्था । अमावास्थायां प्रेतपक्षे(४) च मृतानां पार्वणं नियतम्। तदाह
(९) दशैं मातामहानामपि श्राद्धसत्वादिति भावः । (२) कर्पूनम पिण्डदानार्थमवटविशेषोऽन्वष्टक्यश्राद्धे सो विहितः ।
पाद्यं पिटत्वप्राप्तेरादिभूतं, मरणोत्तरं कर्तव्येषु श्राद्धेषु मध्ये प्रथम कर्तव्यं वा । श्राइपोड़, "बादशप्रतिमास्यानि वाद्यं घाण्मासिके तथा । सपिण्डीकरणञ्चैव इत्येतत् श्राद्धयोड़ाम्" इति कात्या
यनेनैव विकृतम् । (३) कात्यायनीये करपे सपिण्डीकरणे कडूंविधानानुपलम्भात् सपिण्डी
करणस्य षोड़शश्राद्धान्तर्गतत्वाच कसमन्धितपदेनान्वरक्यश्राद्ध
ग्रहणमेव युक्तमुत्पश्यामः। (8) प्रेतपक्षोऽश्वयुक्कृष्णपक्षः।
For Private And Personal