________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७६४
पराशरमाधवः।
[३, या०, का।
श्राद्धाच्छाद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥
खाध्यायं कलञ्चैव दिवास्वपञ्च खेच्छया"-इति । श्राद्धभोजिनो विशेषमाह यमः,
"पुनीजनमध्वानं भारमायासमैथुनम्।।
सन्ध्यां प्रतिग्रहं होमं श्राद्धभुत्वष्ट वर्जयेत्” इति । सन्ध्याहोमयोः प्रतिषेधस्वकृतप्रायश्चित्तस्य । कते तु प्रायश्चित्ते कुर्यादेव । श्रतएव भविष्यत्पुराणम्,
“दशकृत्वः पिवेच्चापो गायव्या श्राद्धभुग्विजः । ततः संध्यामुपासीत जपेच्च जुहुयादपि” इति । एवमुक्तरीत्या पार्वणं कर्तुमसमर्थः संकल्पविधिना श्राद्धं कुर्यात् । तदुक्तं स्मृत्यन्तरे,
"अङ्गानि पित्यज्ञस्य यदा कर्तुं न शक्नुयात् ।
संकल्पश्राद्धमेवासौ कुर्याद_दिवर्जितम्”- ॥ व्यासोऽपि,
“त्यकामेः पार्वणन्नैव नैकोद्दिष्टं मपिण्डनम् ।
अत्यनानेस्तु पिण्डोनिस्तस्मात् संकल्प्य भोजयेत्” इति । अयमर्थः। श्रालस्येन योऽग्निं त्यजति म त्यताग्निः, न तस्य श्राद्धेऽधिकारः, किंतु त्यकाग्निव्यतिरिक्रस्य मानिकस्य । विधरादेश्व(१)
* सर्वमेव विवर्जयेत्,--इति ना० । । भाराध्ययनमैथुनम्, इति मु० । । योयजेत्, इत्यादर्शपुस्तकेषु पाठः । परन्तु भोजयेदिति पाठस्यान्यत्र
दर्शनात् सङ्गततया च सरव मले निवेशितः। (१) विधुरोमतभार्यः ।
For Private And Personal