________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३० या का।
पराशरमाधवः।
"ततश्च वैश्वदेवान्ते समृत्यसुतबान्धवः ।
भुजौतातिथिसंयुक्तः सर्व पिटनिषेवितम्" इति ॥ यदा श्राद्धं निवर्त्य वैश्वदेवादिकं क्रियते, तदा तच्छेषादेव नत्कार्यम् । तदाह पैठौनमिः,
"श्राद्धं निवर्त्य विधिवईश्वदेवादिकं ततः । कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं तथा"-इति ।
आदिशब्देन नित्यश्राद्धं परिग्टह्यते । तत इति पिल्पाकशेषादित्यर्थः । नित्यश्राद्धं पृथक्पाकेन कार्यम् । अतएव तदधिकृत्य मार्कण्डेयः । "पृथक्पाकेन ।त्यन्ये"-इति। अत्र नित्यश्राद्धमप्य-- नियतम् । तदाह सएव,
"नित्यक्रियां पितॄणाञ्च केदिच्छन्ति मानवाः ।
न पितृणां तथैवान्ये शेषं पूर्ववदाचरेत्” इति । यत्तु लौगाक्षिणोक्रम्,
"पित्रथं निर्वपेत्याकं वैश्वदेवार्थमेवच ।
वैश्वदेवं न पित्रर्थ न दार्श वैश्वदैविकम्” इति ॥ तदाहिताग्निकर्ट कश्राद्धविषयं, श्राहिताग्रेः श्राद्धात्प्रागेव वैश्वदेवम्यः तेनैव विहितत्वात् ।
पक्षान्तं कर्म निर्वत्य वैश्वदेवं च साग्निकः । पिण्डयज्ञं ततः कुर्यात्ततोऽन्याहार्यकं बुधः” इति ॥ पक्षान्तं कर्मान्याधानमन्वाहार्यकं दर्शश्राद्धम्(१) । यत्तु पुराणवचनम्,
(१) “पूर्व्वारनिं ग्रहाति उत्तरमहर्यति" इति श्रुत्वा, दर्शपौर्य
96
For Private And Personal