________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[३१०,या का।
"ततः कर्मणि निवृत्ते तान् पिण्टास्तदनन्तरम् ।
ब्राह्मणोऽमिरजो गौवा भक्षयेदभु वा क्षिपेन्”- इति ॥ तत्पुत्रार्थित्वाभावविषयम्। तीर्थश्राद्धे पिण्डानामस्खेव प्रक्षेपः । नदुनं विष्णुधर्मोत्तरे,
"तीर्थश्राद्धे मदा पिण्डान् क्षिपेत्तीर्थ समाहितः ।
दक्षिणाभिमुखो भूत्वा पित्र्या दिक् मा प्रकीर्तिता"-इति ॥ अनन्तरमुच्छिष्टं सम्मार्जयेत् । अतएव याज्ञवल्क्यः,
"तत्रैव सत्सु विप्रेषु दिजोच्छिष्टं न मार्जयेत्'-दति । अयमर्थः। विप्रविसर्जनात् प्रागुच्छिष्टं न मार्जयेदपि तु तेषु विसर्जितेषु पिण्डप्रतिपत्तौ च कृतायामिति । यत्तु व्यामेनोक्तम्,
"उच्छिष्टं न प्रमृज्यात्तु यावत्रास्तमितो रविः” इति । यच् वसिष्ठेनोक्तम्,"श्राद्धे नोदासनीयानि उच्छिष्टान्यादिनक्षयात् ।
योतन्ते वै स्वधाकारास्ताः शिवन्तः कृतोदकाः"--इति । तहान्तरसम्भवविषयम् । अतएव प्रचेताः,
"भृत्यवर्गवृतो भुते कव्यशेषं स्वगोत्रजेः ।
प्राप्तायां श्राद्धशालायां द्विजोच्छिष्टं न मार्जयेत्'-दति ।। उच्छिष्टमार्जनानन्तरं वैश्वदेवं कृत्वा शेषमन्नं ब्राह्मणैः सह भुनौत । तथा च मत्स्यपुराणम्,
* उच्छियान्नानि तत्कमात्,-इति ना पुस्तके । । अासायं श्राइकालेाऽयं,-इति मु. पुस्तके ।
For Private And Personal