________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अ०, बा० का ० 10
त्वौषधीनानुं रमं प्राशयामि भूतकृतं गर्भं धत्ख " - इति पत्न्या - अञ्चलौ मध्यमपिण्डं प्रयच्छेत् । तत्प्राशन * मन्त्रस्तु मत्स्येन दर्शितः, - " श्रधत्त पितरो गर्भमन्तः सन्तानवर्द्धनम् ” - इति । मनुरपि -
" पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमन्तु ततः पिण्डमद्यात्सम्यक् सुतार्थिनौ । श्रनन्तं सुतं विन्देत् यशोमेधासमन्वितम् ॥ धनवन्तं प्रजावन्तं धार्मिकं सात्विकं तथा " - इति ।
पराशर माधवः ।
पिण्डप्रदानस्यायोग्यत्वमाह सएव -
Acharya Shri Kailashsagarsuri Gyanmandir
પૂર
“श्रप्राप्तयौवने वृद्धे सगर्भे रोगसम्भवे ।
वालपुत्रकलत्रेऽपि न दद्यात् पिण्डमञ्जलौ ” - इति । पत्न्या असन्निधानादौ पिण्डानां प्रतिपत्त्यन्तरमाह बृहस्पतिः - “श्रन्यदेशगता पनौ गर्भिणी रोगिणी तथा ।
तदा तं जीर्णवृषभः छागो वा भोक्तुमर्हति ” - इति ॥ आपस्तम्बोऽपि प्रतिपत्त्यन्तरमाह, -
"यदि पत्नी विदेशस्था उच्छिष्टा यदि वा मृता । दुरात्मा नानुकूला च तस्य पिण्डस्य का गतिः ॥ श्राकाशं गमयेत्पिण्डं जलस्थो दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणा दिक् तथैवच" - इति ॥ यत्तु देवलेनोक्रम,—
For Private And Personal
* तत्प्रकार इत्यादिः एतदन्तोयन्यो नास्ति मुद्रितातिरिक्त पुस्तकेषु ।
+ पिण्प्रदानस्येत्यारभ्य एतदन्तोग्रन्थो नास्ति मुद्रितातिरिक्त पुस्तकेषु |