________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
खा,पाका.
पराशरमाधवः।
अनन्तरकत्यमाह याज्ञवल्क्यः । “ततः कुर्यादक्षय्योदकमेवच"इति । अक्षय्यमस्विति ब्राह्मणहस्ते जलं दद्यादित्यर्थः । मार्कण्डेयोऽपि,
"पितृणां नामगोत्रेण जलं देयमनन्तरम् । ब्राह्मणानां द्विजैर्वाच्यमक्षय्यमिदमस्विति" इति ॥ हस्तेष्वित्यध्याहत्य योजना। अनन्तरं दक्षिणां दद्यात्। मनुः,
"स्वस्तिवाचनकं कुर्यात् अक्षय्योदकमेवच । मतिलं* नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ॥ गोभूहिरण्यवासांसि भव्यानि शयनानि च । दद्याद्यदिष्टं विप्राणमात्मनः पितुरेवच । वित्तशाश्येन रहितः पित्भ्यः प्रीतिमाचरन्” इति ॥ अत्र विशेषमाह पारस्करः । “हिरण्यं विश्वेभ्यो देवेभ्यो रजत पिढभ्यः अन्यच्च गोकृष्णाजिनं यावच्छक्यं दद्यात्।।
एकपंक्त्युपविष्टानां विप्राणं श्राद्धकर्मणि ।
भक्ष्यं भोज्यं समं देयं दक्षिण वनुसारतः” इति ॥ . अनुमारत इति, निमन्त्रितब्राह्मणविद्यागुणतारतम्येनेत्यर्थः । पित्र्यद्देशेन दक्षिणदानं प्राचौनावौतिना कार्यम्। अतएव जमदग्निः । “अपसव्यन्तु तत्रापि मत्स्यो भगवान् हि मे मनः” इति । तत्रापि दक्षिणादानेऽपौति। यत्तु तेनैवोत्रम्,
* सलिलं,-इति ना० स० पुस्तकयाः + नव्यानि,-इति मु• पुस्तके । 1 यावच्छकुयात्, इति ना० पुस्तके ।
For Private And Personal