________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परापूरमाधवः।
[३१०,या का।
यार्थः । कृतकार्यत्वेन तेषु च यवादिषु कुत्रचित् शुचौ देशे विसृष्टेषु पुनरुदकादिकं दद्यात् । तथा च मत्स्यः,
“श्राचान्तेषु पुनर्दद्यात् जलपुष्पाक्षतोदकम्” इति । अनन्तरकर्त्तव्यमाह मएव,
"दत्त्वाऽऽशौः प्रतिग्टहीयात् द्विजेभ्यः प्राङ्मुखो बुधः। अघोराः पितरः सन्तु मन्त्वियुक्त पुनर्दिजैः ॥ गोत्रं तथा व तां नस्तथेत्युक्रश्च तैः पुनः । दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेवच ॥ श्रद्धा च नो मा व्यगमबह देयञ्च नोऽस्त्विति ।
एताः सत्याशिषः सन्तु मन्त्वित्युक्तश्च तैः पुनः” इति ॥ अनन्तरं पात्रचालनं कृत्वा स्वस्तिवाचनं कुर्यात् । अतएव नारायणः,
"चालयित्वा तत्पात्रं स्वस्ति कुर्वन्ति ये विजाः । निराशाः पितरस्तेषां शवा यान्ति यथागतम्” इति । पात्रचालने विशेषमाह जाकर्ण्यः,
“पात्राणि चालयेत् श्राद्धे स्वयं शिष्योऽथवा सुतः ।
न स्त्रीभिर्न च बालेन नामज्जात्या कथञ्चन"-इति ॥ स्वस्तिवाचनप्रकारमाह पारस्करः । “स्वस्तौति भगवन् ब्रीति वाचनम्” इति । यज्ञोपवीतौ वैश्वदैविकहस्ते उदकं दत्त्वा पुरूरवावसंज्ञकेभ्यो विश्वेभ्योदेवेभ्यः खस्तौति भगवन् प्र॒हौति कर्ता व्यात् । विप्रेण च वस्तीति वक्तव्यम् । पिटब्राह्मणहस्तेष्वप्येवमेव । * यज्ञोपवीती, इत्यारभ्य एतदन्तोग्रन्थो नास्ति ना. पुस्तके ।
For Private And Personal