________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०, पा०का.]
पराशरमाधवः।
प्रयोगमौकर्यार्थमाचमनादू पिण्डनिर्वपणपक्षएव ग्रहौतव्यः । पिण्डनिर्वपणतिकर्त्तव्यता ब्रह्माण्डपुराणेऽभिहिता,
"मव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः । प्रघर्षणं ततः कुर्यात् श्राद्धकर्मण्यतन्द्रितः । खण्डनं पेषणं चैव तथैवोल्लेखनक्रिया । वजेणथ कुणैर्वाऽपि उलिखेत् तु महौं दिजः" इति । खण्डनं कुशादेश्छेदनं, पेषणं भूघर्षणं, वज्रशब्देन स्पृश उच्यते(१) । उल्लेखनमन्त्रश्व कात्यायनेन दर्शितः । “उल्लिख्यापहताइति” । अनन्तरं प्रोक्षयेत् । “तामभ्युच्य"-इति श्राश्वलायनस्मरणात् । तत्र कुमानास्तृणुयात् । तदुकं ब्रह्माण्डपुराणे । “क्षिपेत् कुशास्तत्र च दक्षिणाग्रान्" इति । ततोऽवनेजनं कुर्यात् । तदाह सुमन्तुः
"असाववनेनिक्ष्वेति पुरुषं पुरुषं प्रति ।
विस्त्रिरेकेन हस्तेन विदधौतावनेजनम्” इति । प्रमाविति पित्रादौन् नामगोत्राभ्यां सम्बोध्य एकेन दक्षिणहस्तेन प्रतिपुरुषं त्रिस्त्रिरवनेजनमुदकनिर्वपणं कुर्यादित्यर्थः। अत्राश्वलायनेनावनेजने मन्त्रान्तरमुक्तम् । “प्राचौनाबौती लेखां त्रिरुदकेनोपनयेच्छुन्धन्तां पितरः"-इत्यादि। तदविरुद्धं, शाखाभेदेन व्यवस्थोपपत्तेः। पिण्डदानमन्त्राः कात्यायनेन दर्शिताः । “असावेतत्तइति ये च त्वामन्वित्येके” इति । असावित्यमुकगोचामुकशर्मबिति संबोध्य एतत्ते इति मन्त्रेण पिण्डदानं कुर्य्यात् । एके
(१) इत्य मेव पाठः सर्वेध पुस्तकेषु ।
105
For Private And Personal