________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,वा का।
परापारमाधवः।
अनन्तरं गण्डूषार्थमुदकं दद्यात् । तथाच मदालसावाक्यम,
"ततस्वाचमनार्थाय दद्याच्चापः महात्मकृत्" इति । पित्र्यबाह्यणपूर्वकं हस्तप्रक्षालनाचमनार्थमुदकं दद्यात् । तदाहविष्णुः । “उदमखेष्वाचमनमादौ दद्यात् ततः प्रानखेषु ततस्तु प्रोक्षणम्” इति । श्राद्धदेणं मम्प्रोक्ष्य दर्भपाणि: सर्वं कुर्यात् । ततः पिण्डनिर्वपणं कुर्यात् । तदाह याज्ञवल्क्यः,
“मर्वमन्त्रमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टमन्निधौ पिण्डान् दद्यात्तु पिढयज्ञवत्" इति । अयमर्थः । ब्रह्मणार्थपक्कन्तिलमिश्रं मर्वमन्त्रमुपादाय पिण्डान् कृत्वोच्छिष्टसंनिधौ पिढयज्ञकल्पेन पिण्डान् दद्यात्। एतच्च चस्पपाभावे वेदितव्यम् । यदा तु चरुश्रपणमझावस्तदाऽनौकरणशिष्टरुशेषेण मह सर्वमनमादाय अग्निमन्निधौ पिण्डान् दद्यात् । सदाह मनु:.---
"ौंस्तु तस्माद्धविःशेषात् पिण्डान् कृत्वा ममाहितः ।
औदकेनैव विधिना निव॑पेद्दक्षिणामुखः" इति । उच्छिष्टमविधिस्वरुपमाहात्रिः,
"पितृणामासनस्थानादग्रतस्विथ्वरनिषु ।
* एतत्यरं, 'पेटकब्राह्मणेषु प्रथम हरू प्रक्षालनपूर्वकमाचनार्थमुदक दत्त्वा पश्चादैश्वदेविक ब्राह्मणेषु दत्त्वाऽनन्तरं प्रोक्षितमिति मन्त्रेण श्राद्ध. देशं संप्रोक्ष्य दर्भपाणिः सर्वमुपरिकर्मजातं कुर्यादित्यर्थः' इत्यधिक पाठ मु.।
For Private And Personal