________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३ख,बा.का.
पराशरमाधवः
अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् ।
न याचते दिजोमूढः स भवेत् पिघातकः” इति । ननु,
“याचते यदि दातारं ब्राह्मणे जामदुर्वलः । पितरस्तस्य दुष्यन्ति दात कुर्न संशयः" इति । "कृच्छ्रद्दादशरात्रेण मुच्यतेऽकर्मणस्ततः ।
तस्माद्विद्वान्नैव दद्यान्न याचेन च दापयेत्”-इति वायुपुराणस्मृतौ विरुध्येयातामिति चेत् । मैवम् । तयोरनुपकल्पितविषयत्वेनाप्युपपत्तेः । उपकल्पितवस्तुनोऽप्यत्यन्ताधिकस्य दानप्रतिग्रहौ शङ्खलिखिताभ्यां निषिद्धौ। “नात्यन्ताधिकं दद्यान प्रतिग्रहीयात्" इति । अनपेक्षितवस्तुनो निवारणप्रकारमाह निगमः,
"नानपानादिकं श्वाद्धे वारयेन्मुखतः क्वचित् ।
अनिष्टत्वाइहवादा वारणं हस्तसंजया"-इति । वारणं याचनस्याप्युपलक्षणार्थम् । मुखतोयाचने मौनभङ्गाविशेषात् । अपेक्षितवस्तु ददामौत्युक्वा न देयम् । तथाच यमः,
“यावद्धविष्यं भवति यावदिष्टं प्रदीयते ।
तावदन्ति पितरो यावनाह ददाम्यहम्” इति । भोजनकाले दादनियमाः ब्रह्माण्डपुराणे दर्शिताः,
“न चात्रु पातयेत् कर्ता* नाशद्धां गिरमौरयेत् ।
* आतु,-इति मु।
For Private And Personal