SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [३१०,या का। खधानम इति” । अत्र च पित्रादौनां त्रयाणामेकैकस्यानेकब्राह्मणनिमन्त्रणे सर्वेषामेकब्राह्मणनिमन्त्रणेऽपि त्रौण्येवाय॑पात्राणि न तु ब्राह्मणसङ्ख्यया । अतएव वैजवापः, "स्तौ| पितॄणां त्रीण्येव कुर्यात्यात्राणि धर्मवित् । एकस्मिन्वा बहुषु वा ब्राह्मणेषु यथाविधि" । स्तोर्खा तिलानयॊदकेषु विवेत्यर्थः । अर्थपवित्रञ्चायुग्मसङ्ख्यया कर्त्तव्यम् । तदुक्तं चतुर्विंशतिमते, "तिस्रस्तिस्त्रः शलाकाः स्युः पिटपात्रेषु पार्वणे” इति । तिलप्रक्षेपानन्तरं गन्धपुष्पाणि प्रक्षिपेत् । तदुक्तं ब्रह्मपुराणे,___ “पाः पुष्यैश्च गन्धैश्च ताः प्रपूज्याश्च शास्त्रवत्”-इति । या अास्ता प्रापस्ता गन्धादिभिः पूज्या इत्यर्थः । अनन्तरकर्त्तव्यमाह शौनकः,-"ताः प्रतिग्राहयिष्यन् स्वधार्ष्या इति”। ताअपो ब्राह्मणैः प्रतिग्राहयिष्यन् स्वधार्ष्या इति मन्त्रेण स्थापयेदित्यर्थः। ततः पवित्रान्तहितेषूदकपूर्वकं या दिव्या इति मन्त्रेणार्थीदकं दद्यात् । तथाच पैठौनमिः। “ततो ब्राह्मणहस्तेषूदकपूर्व दर्भान्प्रदायोदकपूर्वकम_दकं ददाति या दिव्या इत्युकाऽसावेतत्ते अर्घादकमित्यप उपस्पश्यैवमेवेतरयोः” इति । अत्र विशेषमाह धर्मः । “या दिव्या भाप इति पात्रं पाणिभ्यामुद्धृत्य नाम गोत्रञ्च ग्टहीत्वा मपवित्रहस्तेऽध्यं दद्यात्" इति । यत्तु पैठौनसिवचने हस्तेविति बहुवचनम्, तत् त्रौं स्त्रीनेकैकवेति विहितब्राह्मणमझ्यापक्षे। ब्राह्मणहस्तेषदकपूर्व दर्भान्प्रदायेति पित्रर्थब्राह्मणाचनएव बहुवचनप्रयोगात् । अन्यथा, एवमितरयोरिति पितामहप्रपितामहार्थवाहणा For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy