________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[११.या का।
परिहारेणैकाथ्य यथा भवति, तथोपविष्टमित्यर्थः । ऐकाय्य-प्रामीनमहातेजः-पदानि पूर्व व्याख्यातानि ॥
'अञ्चलि'-पदेन भक्त्यतिशयोद्योत्यते । परया भक्त्या गुरूपदिटार्थ-तत्त्वमाविर्भवति । तथाच, श्वेताश्वतर-शाखायां श्रूयते,
“यस्य देवे परा भक्तिर्यथा देवे तथा गुरी ।
तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः" । इति । अन्तरेण गुरुभकिमुपदिष्टोऽप्यानिष्फलोभवति। तदपि कचित् श्रूयते,
"अध्यापिता ये गुरून् * माद्रियन्ते विप्रावाचा मनसा कर्मणा वा । यथैव ते न गुरुभिजनीया
तथैव तान् न भुनक्ति श्रुतं तत्" । इति । यथा गुरुमनाट्रियमाणाः शिय्या: न गुरुणा पालनीग:(१) तथा तत् श्रुतमपि तान् शिष्यान् ख-फल-दानेन न पालयति,इत्यर्थः । देववद्गुरोः पूजनीयत्वात् तस्मिन् प्रदक्षिणादयोयुज्यन्ते । नहि, आवाहनासन-स्वागतादयोऽप्युपचाराः प्राप्यन्ते, इति चेत्, प्राप्यन्तां नाम, प्रदक्षिणादीनामुपलक्षणत्वात् । अथवा,-दूरादागत्य
-
* गुरू,-इति स० स० पुस्तकयोः पाठः । + गुरोजिनीयाः, इति स० से. पुस्तकयोः पाठः ।
तत् श्रुतमधीतान्,-इति मु० पुस्तके पाठः ।
(१) 'भुजपालनाभ्यवहारयो'-इति धातुपाठादयम लभ्यते ।
For Private And Personal