________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का
पराशरमाधवः।
इति । 'तस्मिन्',-इति आश्रमोकिः । वक्ष्य माण-धर्माणामशेषमुनि-सम्मतत्वं दर्शयितुम्, 'ऋषि-सभा'-इत्युक्तम् । षिष्वपि विशेषेण स्मृति-कारिणं गोच-प्रवर्तकानां(१) च, अत्रि-याज्ञवल्क्यादीनां सम्पत्ति विवक्षित्वा श्राइ, 'मुनि-मुख्य'-इति । न केवलं तपोबलेन पराशरस्य महिमा, किन्तु विशिष्ट-जन्मनापि, इत्याह, शक्ति-पुत्रम्,इति। अयञ्च महिमा, ‘पराशर'-शब्द-निर्वचन-पालोचनया विस्पटमवगम्यते । तच निर्वचनं महद्भिरुदाहृतम्,
"पराठताः शराः यस्मात् राक्षसानां बधार्थिनाम् । अतः पराशरोनाम ऋषिरुकोमनीषिभिः । परस्य कामदेवस्य शराः संमोहनादयः(१) । न विद्यन्ते यतस्तेन ऋषिरुक्तः पराशरः । परेषु पाप-चित्तेषु नादत्ते कोप-लक्षणम् । शरं, यस्मात् ततः प्रोक ऋषिरेष* पराशरः । परं मातुर्निजायायदुदरं तदयं यतः ।
चमुच्चार्य निर्भिद्य निरगात् स पराशरः” । इति । 'सुख'-शब्देनकाय्यं च विवक्षितम् ;-चित्तस्याशेष-विक्षेप
___ * ऋविरेव,-इति मु० पुस्तके पाठः ।
(१) गोत्रं वंशपरम्पराप्रसिद्दमादिपुरुषब्राह्मणवरूपम् । तच्च काश्य
पादि प्रसिद्धमेव । (२) सम्मोहनादयश्च, .."सम्मोहनोन्मादनौ च शशेषणस्तापनस्तथा। स्तम्भ
नश्चेतिकामस्य पञ्च वाणाः प्रकीर्तिताः"-इत्य ने नोक्ताः ।
For Private And Personal