________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
वि०,या का।
“प्रदक्षिणन्तु देवानां पितॄणामप्रदक्षिणम् ।
देवानामृजवो दर्भाः पितॄणां द्विगुणाः स्मृताः" इति॥ मण्डलकरणानन्तरकर्त्तव्यमाह शम्भुः,
"उत्तरेऽक्षतसंयुतान्पूर्वाग्रान् विन्यसेत् कुशान्।
दक्षिणे दक्षिणाग्रांस्तु सतिलान्चिन्यमेदुधः" इति ॥ मत्स्यपुराणेऽपि,
"अक्षताभिः सपुष्याभिस्तदभ्यर्यापसव्यवत् ।
विप्राणां चालयेत्पादानभिनन्द्य पुनः पुनः” इति ॥ अपसव्यवत् पूर्वमुदीच्यमण्डलं पश्चाद्दक्षिणमण्डलमभ्ययंत्यर्थः । दैवपूर्वकं विप्राणां पादप्रक्षालनं कुर्यात् । अतएव ब्रह्मनिरुक्तम्,
“पाद्यञ्चैव तथैवाध्य दैवमादौ प्रयोजयेत् । ... शनोदेवौति मन्त्रेण पाद्यश्चैव प्रदापयेत्” इति॥ पाद्यादिदानं नामगोत्रोच्चारणपूर्वकं कर्त्तव्यम् । तदुक्तं मस्य
पुराणे,
“नामगोत्रं पितृणन्तु प्रापकं हव्यकव्ययोः" इति । पादप्रक्षालनानन्तरं यत् कर्त्तव्यं तदाह सुमन्तुः,
"दर्भपाणिदिराचम्य लघुवामा जिनेन्द्रियः । परिश्रिते शुचौ देशे गोमयेनोपन्नेपिते ॥ दक्षिणाप्रवणे सम्यगाचान्तान् प्रयतान् शुचौन्।
भासनेषु सदर्भेषु विविकेषूपवेशयेत्” इति ॥ विविक्तेषु परस्परमसंस्पृष्टेष्वित्यर्थः । मनुरपि,
"भासनेषु त कृप्तेषु वर्षिभत्सु पृथक् पृथक् ।
For Private And Personal