________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,याका
पराशरमाधवः।
७२५
"भवनस्याग्रतोभूमौ(३)
गोमयेनानुलिप्तायां गोमूत्रेण तु मण्डले" इति। गोमयसहितेन गोमत्रेण मण्डले कार्य इति शेषः । अत्र विशेषमाह शम्भुः ,
___ "उदकलवमुदीच्य स्थाद्दक्षिणं दक्षिणाप्तवम्” इति ।
उदीच्यं वैश्वदेविक मण्डलमुदक्प्रवणं, दक्षिणं पित्यं मण्डलं दक्षिणप्रवणं कुर्यात्। तत्र मण्डलकरणप्रभृत्याश्राद्धपरिसमाप्तेर्वैश्वदेविकं कर्म प्रदक्षिणं यज्ञोपवीतिना कार्य पित्यमपसव्यं प्राचीनावौतिना(२) कार्यम् । तथाच मनुः,
"प्राचौनावौतिना सम्यगपसव्यमतन्त्रिणा।
पिश्यमानिधनात्कार्यं विधिवदर्भपाणिना"-इति ॥ अत्रैव विशेषान्तरमाह कात्यायनः,
"दक्षिणं पातयेत् जानु देवान्परिचरन् सदा ।
पातयेदितरनानु पिढन्परिचरन् सदा"-दुति॥ शातातपोऽपि,
"उदमुखस्तु देवानां पितृणां दक्षिणामुखः” इति। बोधायनोऽपि,* उदङ्मुखमुदीच्यं-इति सो० शा० । (१) सर्वम्वेवादापुस्तकेषु श्लोकस्यास्य द्वितीयपादो न दृश्यते । (२) यज्ञोपवीतिप्राचीनावीतिनौ, "उपवीतं यज्ञसूत्रं प्राइते दक्षिणे
करे प्राचीनावीतमन्यस्मिन्"-इत्यनेनोन्यौ । अपसव्यं पिटतीथ, "तजन्यङ्गठयोरन्तरा अपसव्यमवसलधि तेन पिटभ्यो दद्यात्”
इत्युक्त।
For Private And Personal