________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्चा,पाका.
पराशरमाधवः।
नेतरत्रेत्यवगम्यते । अतएवोकं मनुना,
"न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रत्तिरेषा भूतानां निरत्तिस्तु महाफला"-इति ॥ यत्तु तेनैवोक्तम्,
"नाकृत्वा प्राणिनां हिंमां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वय॑स्तस्मान्मासं विवर्जयेत् ॥ समुत्पत्तिश्च मांसस्य बधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात्" इति ॥ यञ्च याज्ञवल्क्येनापि,
“वसेत्स नरके घोरे दिनानि पशुलोमभिः ।
मंमितानि दुराचारो यो इन्यविधिना पशून"-इति॥ तविषिद्धप्राणिहिंसापूर्वकमांसभक्षणविषयं, न तु क्रयादिप्राप्तमांसभक्षणविषयं, प्राणिवधनिन्दापूर्वकमेव मांसनिषेधस्मरणात् । यच्च मनुनैवोकम्,
"फलमूलाशनर्धन्यवानाच भोजनैः ।
न तत्फलमवाप्नोति यन्मांसपरिवर्जनात्” इति ॥ तत्र मांसवर्जनस्य महाफलमाधनत्वं प्रोक्षितादिव्यतिरिक्रविषयम् । अतएवोकन्तेनैव
"प्रोक्षितं भवयेन्मांसं ब्राह्मणस्य च काम्यया।
यथाविधि नियुकश्च प्राणानामेव चात्यये"-इति ॥ प्रोवितमिथिएं मांस, ब्राह्मणस्य काम्यया ब्राह्मणकामनया च,'
* वाहाणाकामनायां च,-इति सो० ना० ।
For Private And Personal