________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७१०
पराशरमाधवः।
[श्च०,धा०का।
"राजीवाः सिंहतुण्डाश्च सशस्काश्चैव सर्वशः" इति। राजीवाः पद्मवर्णः मत्स्याः। सिंहतुण्डाः सिंहमुखाः । शरकैः शक्याकारावयवैः पृष्ठभागगतैः सह वत्तन्ते इति मशल्काः। एते सर्वशः श्राद्धे नित्यभोजने च भक्ष्या इत्यर्थः । देवलोऽपि,
"उतूककुररथ्येनग्टधकुक्कुटवायमाः । चकोरः कोकिलो रज्जुदालकश्चाषमझुकौ ॥ पारावतकपोतौ च न भक्ष्याः पक्षिणः स्मृताः । अभक्ष्याः पाजातीनां गोखरोष्ट्राश्वकुञ्जराः॥ सिंहव्याघ्रईशरभाः सीजगरकास्तथा । श्राखुमूषकमार्जारनकुलग्रामशूकराः ॥ श्वस्टगालबकद्वीपिगोलाङ्गलकमर्कटाः" इति । कुररः उत्क्रोशः । मद्गुर्जलकाकः । द्वीपिशब्दो व्याघ्र विशेषपरः । गोलाङ्गलो वानरविशेषः । मर्कटग्रहणं सर्वेषां पञ्चनखानामुपलक्षणार्थम्। अतएव मनुः । “मान्यञ्चनखांस्तथा"-इति । न भक्षयेदिति योजना। अत्र पञ्चनखानां भक्ष्यत्वनिषेधो गोधादिपञ्चकव्यतिरिक्तविषयः । तथाच देवलः,
"पञ्च पश्चनखा भक्ष्या धर्मतः परिकीर्तिताः । __ गोधा कूर्मः शश: श्वाविट शल्यकश्चेति ते स्मताः" इति ॥
धर्मत इति हिंसामकृत्वा क्रयादिप्राप्ता भच्या इत्यर्थः । न चायमपूर्वविधिः, रागप्राप्नत्वात्तद्भवणस्य । नापि नियमः, पक्षप्राण्यभावात्। अतो गोधादिपञ्चनखपञ्चकव्यतिरिना न भक्ष्या इति परिमयैव परिशिष्यते । एवञ्च पति विशेषनिषेधवलात्तन्मांसभक्षणे प्रत्यवायो
For Private And Personal